Book Title: Vruttamuktavali
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan

View full book text
Previous | Next

Page 84
________________ तृतीयो गुम्फः [ ४५ [अर्थकादशाक्षरा भत्रयशालिगुरुद्वययुक्त यच्चरणं कविभिः सुखमुक्तम् । तत्कलयामृतनिर्भरसारं लालसरोरुहवृत्तमुदारम्' ॥ १२१ ।। यथा-दिव्यकृपावरुणालयमेकं निर्मितचित्तसुधारससेकम् ।। हर्षितबहिणकारितकेकं नौमि हरि धृतरुच्यतिरेकम् ।। १२२ ।। सुमुखी सलघुचतुष्टयभद्वितयं तदनु गुरुं कुरु मुक्तभयम् । भण सुमुखीति सुवृत्तमिदं वशयति वल्गु गिरासुविदम् ।। १२३ ।। यथा-कति कति भूमिभृतो न गताः कतिमनुजेषु कृता नरता। अलमधुना कविते मम हे रघुपतिवर्णनमेष वहे ।। १२४ ।। शालिनी यत्पादे स्युनिमिता वेदवका भूयो रम्यं रद्वयं चापि वक्रम् । इत्थं यत्या योजितेयं मनोज्ञा प्राज्ञैरुक्ता शालिनी शोभमाना ॥१२५॥ यथा-बाला लोला कोमलालापशाला मल्लीमालाशालिनी चारुभाला। कामज्वालाहारिपीयूषधारा दृष्टया दृष्टा सुन्दरी साऽभिसारा ।१२६। . यथा वा देशे देशे मञ्जुला कुजवीथी कुजे कुजे पुष्पसौरभ्यसारः । पुष्पे पुष्पे पञ्चबाणस्य बाणा बाणे बाणे कामिनां प्राणपातः ।।१२७॥ स्थाने स्थाने भान्ति सौधा विशाला: सौधे सौधे कामिनीनां विलासाः । लासे लासे नेत्रचाञ्चल्यशोभा नेत्रे नेत्रे मत्ततायाः प्रकाशः ।।१२८॥ अथ रथोद्धता रोत्तरं नगणरौ लघुर्गुरुः कार्यमित्युदयशालि यत्पदम् । सा फणीन्द्र मुखपङ्कजोद्गता राजते सुवितता रथोद्धता ।। १२६ ।। यथा-मण्डपीकृतजगत्त्रयोदरे मण्डनीयति सतारकं विधुम् । कोतिरद्भुत कलापटीयसी दिक्तटीषु भवतो नटीयते ।। १३० ॥ अथ स्वागता अक्षरं तु नवमं दशमं चेद् व्यत्ययेन निहितं खलु यस्याम् । एतदेव हि रथोद्धतवृत्तं स्वागतेति कविभिः कृतनाम ॥ १३१ ॥ १. दोधकवृत्तमिति वृत्तरत्नाकर-छन्द:प्रभाकरादयः ।

Loading...

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120