Book Title: Vruttamuktavali
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan
View full book text
________________
तृतीयो गुम्फः . . [ ४३ यथा-कलितकमलाविलासं ललितरसरासलासम् ।
सततकमनीयशीलं भजत हरिमभ्रनीलम् ।। १०० ।। तोमरच्छन्दः
सगणैकमञ्जिमपालि जगणद्वयातिशालि ।
इति तोमराभिधवृत्तमतुल विधेहि सुवृत्त ।। १०१ ।। यथा-गुणगानगुम्फितसाम दुरितौघपावननाम ।।
भज राममेव ललाम-मभिराममद्भुतधाम ॥ १०२ ।। अथ नवाक्षरप्रस्तारः [मालीवृत्तम्]
भूखण्डख्याता वक्रा वर्णाः शोभन्ते यस्यां पादे पादे ।
तद्रूपा मालीनाम्ना वृत्तं संप्रोक्त लोके छन्दोविद्भिः ॥ १०३ ।। यथा-नृत्यन्ति स्वैरं विद्युन्माला गर्जन्ति स्निग्धाम्भोभृज्जालाः ।
वान्त्येते मन्दाः शीता वाताः क्व प्रेयस्यस्मिन् काले याता ॥१०४॥ अथ दशाक्षरा
यदि तोमरस्य मुखे धृतं गुरुरूपमक्षरमादृतम् ।
तदवेहि संयुतनामकं ननु वृत्तमस्त्यभिरामकम् ॥ १०५॥ यथा-चतुरङ्गसंततनर्तिनः पवमानसंमितवर्तिनः ।
तव वाजिनो विहगोपमा विलसन्तु जातनभ:क्रमाः ॥ १०६ ॥ अथ चम्पकमाला
स्याद् भगणान्ते यद्गुरुयुग्मं संतनुत द्विःसंगतमेवम् ।
चम्पकमालानाम सुवृत्तं राजति भूयो मोहितचित्तम् ॥ १०७ ॥ यथा-पीतदुकूलं मङ्गलमूलं सेवितहंसापत्यसुकूलम् ।
सेवकलोकानामनुकूलं तं शरणं कुर्वे हृतशूलम् ।। १०८ ।। अथ मणिबन्धाख्यम्
चम्पकमाला निश्चरमा चेतसि धार्या सा परमा।
स्यान्मणिबन्धं वृत्तमदः शंसत संसन्मध्यसदः ।। १०६ ॥ यथा-अम्बरविद्युयोतधरं कुन्द-बलाकाजातभरम् ।
मोदनलीलावारिझरं भावय कञ्चिन्मेघवरम् ।। ११०॥

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120