Book Title: Vruttamuktavali
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan

View full book text
Previous | Next

Page 87
________________ ४८ ] वृत्तमुक्तावल्याम् अथ विद्याहारः' पादे पादे यस्मिन् भास्वत्संख्या वर्णाः ।' सर्वे वक्राः सद्योमुह्यच्चेतःकर्णाः । सुजैरुक्त दोषैर्मु (क्त) यत्या युक्तम् विद्याहाराख्यं तद्वृत्तं श्रीसंयुक्तम् ।। १५४ ।। यथा-रक्षोवक्षोविक्षोभाय प्रोद्यद्वाणं भास्वद्भल्लोत्कृत्ताशेषारातिप्राणम् । पुण्यारण्यक्ष्मासंचारात्किञ्चित्क्षामं मोघश्याम सेवे नामं नामं रामम् ॥ १५५ ॥ प्रथ भुजङ्गप्रयातम् चतुःसंख्यका यस्य पादे यकाराः सदा मोदयन्ते समन्तादुदाराः । भुजङ्गप्रयाताभिधं वृत्तमेतत्सुधापातिहेतुः सतां मानसे तत् ॥ १५६ यथा-चिरं चन्द्ररोचिःसमुच्चारचञ्चच्चलच्चामर श्रीचमत्कारचारु । समस्तावनिच्छन्नसुच्छायभूयःसमुच्छायशालिच्छविच्छत्ररम्यम् १५७ दरीभृद्दरीदारणोद्रिक्तदृप्यत्समुत्तुङ्गमातङ्गलक्ष्मीनिवासम् । अधस्ताद्भुजङ्गावलीभञ्जनेच्छाखुराग्रक्षतक्षोणिवाजीन्द्रयुक्तम् १५८ चमूचक्रमाक्रान्तवेलान्तवेगोच्छलसिन्धुकल्लोलनिस्सानघोषम् । पुरः प्रत्यगाशाचलोद्दण्डदण्डस्फुरत्सूर्यचन्द्रध्वजश्रीमनोज्ञम् ।। १५६ प्रतापप्रभा-कीर्तिशोभासमूहैः समुद्धतसर्वत्रिलोकान्धकारम् । नताशेषराजन्यमूर्धानरत्नत्विषाकीर्णसिंहासनप्रान्तदेशम् ।। १६० ।। अविश्रान्तजाम्बूनदासारधाराकृतार्थीकृताशेषविद्वत्समूहम् । महाराजराजेन्द्र राजाधिराज त्वदीये भुजाग्रे समुद्भाति राज्यम् १६१ अथ लक्ष्मीधरः स्याच्चतुर्भी रकारैयुतं यत्पदं भूरिविद्वन्मनोदत्तभूयोमदम् । भाति लक्ष्मीधराख्यातमेतत्स्फुटं वृत्तमाकृष्टसभ्यश्रवःसंपुटम् ।। १६२ यथा-शातकुम्भस्फुरत्कुम्भसंभावितौ यौवनोदारकुम्भीन्द्रकुम्भोपमौ । तारहारप्रभाभारसंदीपितौ दृप्यतस्तावको तन्वि वक्षोरुहौ ॥ १६३।। १. विद्याधारी (छन्द:प्रभाकरे)

Loading...

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120