Book Title: Vruttamuktavali
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan

View full book text
Previous | Next

Page 78
________________ तृतीयो गुम्फः [ ३६ यथा-अचलभृति दुरितहति । हृदयलयमिह कलय ॥ ४८ ॥ यथा वा-शशिवदन जितमदन । जय नयनकृतदयन ॥ ४६॥ अथ शेषराजच्छन्दःविद्वच्चेतःस्वादे षड्वक्रो यत्पादे। तच्छेषाख्यं वृत्तं विज्ञेयं नो वित्तम् ।।५०।। यथा-भूयो दत्तानन्दं लीलाकृत् स्वच्छन्दम् । ब्रह्म श्रुत्या गीतं वन्दे चित्तानीतम् ।। ५१ ॥ अथ तिलकाख्यच्छन्दः सगणद्वितयं कुरुवर्णचयम् । तिलकाख्यकलं तनु वृत्तमलम् ॥५२॥ यथा-वरशैलधरं भवदुःखहरम् । भज सर्वपरं भजनीयतरम् ।। ५३ ॥ विज्जोहा रद्वयाकारभृद् यत्र पादो भवेत्। वित्तविद्योतिकावृत्तमेतद् बुधाः ॥५४॥ यथा-कृष्णतेजोघटासङ्गिविधुच्छटा । भक्तबाधाहरा भाति राधाऽभिधा ।। ५५ ।। चतुरंसच्छन्दः निगमलघूर्ध्वं यदि गुरुयुग्मम् । तदिह सुवृत्तं भण चतुरंसम् ॥५६।। यथा--मधुवनलील विहरणशीलम् । हृतभवकीलं भज घनलीलम् ॥५७॥ यथा वा-विरचितरासं विहितविलासम् । कृतवनलासं भजत सहासम् ॥५८ अथ मन्थानच्छन्दः तद्वन्द्वमादाय पादं समाधाय । मन्थानवृत्तं तदाख्याहि सुप्रज्ञ ॥५६॥ यथा-भक्तयेकसिद्धान्तविश्रान्तिकृत्स्वान्त । सेवस्व तद्धाम नन्दात्मजं नाम ।। ६० ॥ शङ्खनारीवृत्तम् यकारद्वयात्मा धृतो यत्र पादः । तदा तत्र वृत्तं भवेच्छङ्खनारी ॥६१॥ यथा-हृताशेषबाधा विलासैरगाधा। कृतानङ्गबाधा हरौ भाति राधा।।६२।। यथा वा--विचाराधिरोहं परिब्रूहि कोऽहम् । समुद्भिद्य मोहं मिमीथाः शिवोहम् ।। ६३ ।। यथा वा--हृताशेषवादः समुद्धृतसादः । स्फुरद्दिव्यनादः कदा ते प्रसादः ।। ६४ ॥

Loading...

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120