Book Title: Vruttamuktavali
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan
View full book text
________________
सान् तत्सहवासेन सानन्दमतिवाह्य पुनरसी स्वामिनः सविधमुपगतो निजं नियोगमशून्यं चकार । इतस्तत्प्रणयिनी प्रियवियोगमसहमाना कथं कथमयापयद्विरहविरसान् कतिचिद् दिवसान् । अथ वियोगवह्निना विह्वला सा प्रियतमसविधे पत्रप्रेषणमुचितमभ्यूह्य स्वयमागुम्फितमेकं छन्द: पत्रे विलिख्य प्रेषित. वती प्रियतमस्योपकण्ठे । किन्तु दैवसंयोगात्तदिदं पत्रमकस्मान्नवाबखानखानामहोदयस्य दृशोर्गोचरमगच्छत् । आसीत्पत्रे सेयं कविता लिखिता
प्रेम प्रीति को बिरवा चलेहु लगाय ।
सींचन को सुधि लीजो मुरझि न जाय ।। __ कवितायामस्यां विरहानुप्राणितयाऽन्तर्वेदना निहिता तया प्रभावितः परमसहृदयो नवाबखानखानामहोदयो राजपुत्रगतं सर्वं वृत्तान्तमवगत्य तत्कालमेव तस्मै गृहगमनानुमति विततार । नवाबमहोदयस्य हृदये कृतपदमिदं छन्द: कविताक्षरानुसारेण 'बरवा' नाम्ना प्रासिध्यत् । कविताप्रणयी नवाबमहोदयः स्वयमस्मिन् छन्दसि भूयसीः सूक्ती: समुपनिबद्धवान् । समाहृतवांश्च तद्दिनादारभ्यैव तदिदं छन्द: कविसमाजः, यस्मिन् हि रचनापाटवं प्रदर्शयन्तो गोस्वामितुलसीदासादयो भूयसी सफलतामधिजग्मुः ।
ऐतिह्येनानेन बरवैछन्दसो विरहवर्णनानुकूलत्वख्यापिनी या परम्परा हिन्दीकविसमाजे प्राचलत्तस्या मूलं गवेषयितुं सुकरम् । एवं बरवैच्छन्दः खानखानामहोदयस्य, चौपाई तुलसीदासस्य, दोहा विहारिणः, छप्पयच्छन्दोनाभादासस्येत्यादि यथा छन्दोनिबन्धपाटवं हिन्दीकवीनां प्रथितं, तथैव कालिदासस्य मन्दाक्रान्ता, भवभूतेः शिखरिणी, शार्दूलक्रीडितैरेव प्रख्यातो राजशेखरः, जगन्नाथस्य मालभारिणी, गोवर्द्धनस्यार्या इत्यादिदिशा तत्तत्कवीनां विशेषच्छन्दोनिबन्धनपाटवं संस्कृतकविसमांजे प्रसिद्धम् । एवमेव 'हास्यं दोधकम्, करुणं मन्दाक्रान्ता-पुष्पिताग्रादीनि, शृङ्गारं पृथ्वी-स्रग्धरादीनि, वीरं शिखरिणी-शार्दूलविक्रीडितादीनि सौकर्येणाभिव्यञ्जयन्ती' ति काव्यप्रकाशोक्तिरपि छन्दसां रसाभिव्यञ्जकत्वे विशेष महत्त्वं चोद्बोधयति । अक्षरसङ्घटना यथा रसोद्रेके सहायिका तथैव वृत्तभेदेषु वर्णपरिमाणादीन्यपि विशिष्टरसानुकूलानीति कतिपयेषां व्रजभाषाच्छन्दसामुदाहरणेन स्पष्टीभवेत् । व्रजभाषायाम् 'अमृतध्वनि-'छप्पया'दिच्छन्दसां घटना, योजना च स्वत एव तादृशी यया वीर-रोद्रादिरसानां चित्रणे नितरामानुकूल्यं भवति कवेः । बरवैछन्दसो वेदनानुकूला संक्षिप्ता, मार्मिकी च सङ्घटना करुणरसानुकूलेत्युपर्युक्तवानस्मि ।
___ संस्कृते मात्रिकच्छन्दांसि तत्तद्रसभावाद्यभिव्यञ्जनाय तदनुकूलानां वृत्तभेदानामावश्यकता छन्दसा

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120