Book Title: Vruttamuktavali
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan

View full book text
Previous | Next

Page 41
________________ २] वृत्तमुक्तावली विंशतिचतुर्विंशतिसप्तविंशतित्रिंशत्त्रयस्त्रिशत् षट्त्रिंशदका लेख्याः । चतुरश्चतुरः प्राजापत्या। एषा चतुरश्चतुरोऽङ्कान् गृहीत्वा वर्द्धत । तत्पङ्क्तौ द्वादशषोडशविंशतिचतुर्विंशत्यष्टाविंशतिद्वात्रिंशदङ्का लेख्याः । एकैकं शेषे। यत्र नोक्ता वृद्धिर्दैवीयाजुष्योस्तत्र ते एकमेकं गृहीत्वा वद्धयाताम् । तेन तयोः पङ्क्तौ द्वयादयः सप्तान्तम्, सप्ताद्या द्वादशान्तं लेख्याः । जह्यादासुरी। एषा एकैकं त्यजेत् । तेन तत्र पञ्चदशतो नवान्तं न्यूना लेख्या: । तान्युष्णिगनुष्टुब्बृहतीपङ्क्तित्रिष्टुप्जगत्यः । द्वौ द्वौ साम्नामित्यादि वृद्धयोक्तानि उष्णिगादिसंज्ञां लभन्ते । तिस्रस्तिस्रः सनाम्न्य एकैका ब्राह्मः । यजुःसामर्ची तिस्रो गायत्र्यो मिलित्वा षट्त्रिंशदक्षरैका ब्राह्मी गायत्री भवति। एकैकेति वीप्सयोष्णिगादेरपि ग्रहणम् । सनाम्न्य एकसंज्ञाः। ता एव तिस्रो मिलित्वा द्विचत्वारिंशदक्षरा ब्राह्मी उष्णिक्, एवं ता एव मिलित्वाऽष्टचत्वारिंशदादिसंख्या अनुष्टुबाद्या बोध्याः । वीप्सयैवैतदर्थलाभात्स्पष्टार्थमिदम् । प्राग्यजुषामायः याजुषीप्राग्वतिन्यः । प्राजापत्यासुरीदैव्यस्तिस्रो मिलित्वा चतुर्विंशत्यक्षरार्षी गायत्री। एवमार्ण्य उष्णिगाद्या अपि । तत्रेदं रूपदर्शनम् प्राजा० ८ पार्षी । २४ | २८ | ३२ | ३ | ४० ४४ ४८ देवी - ३ | २ ३ | ४ । ५ ६ ७ आसुरी | १५ १४ | १३ | १२ | ११ | १० । ८ | १२ | १६ | २० | २४ २८ ३२ __ याजु० ७ ८ ९ १० ११ १२ साम्नी | १२ | १४ | १६ | १८ | २० | २२ | २४ प्रार्ची | १६ २१ २४ २७ ३० ३३, ३६ । ब्राह्मी | ३६ ४२ | ४८ ५४ । ६० । ६६ । ७२ अवार्षी गायत्री चतुर्विंशत्यक्षरेत्यादि बोध्यम् । 'अग्नि दूतं वृणीमहे । हातारं विश्ववेदसम् । अस्य यज्ञस्य सुक्रतुम् ।' आर्षी उष्णिग्यथा--'अग्ने वाजस्य गोमतः । ईशानः सहसो यहो अस्मे धेहि जातवेदो महिश्रवः ।' एवमार्योनुष्टुबादयोपि । देवी गायत्री यथा-'ॐ ।' दैवी उष्णिग्यथा-'भुवः वौषट् ।' देवी

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120