Book Title: Vruttamuktavali
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan
View full book text
________________
वृत्तमुक्तावली
[ ५
त्वा गायत्रिणोर्चन्त्यर्कमर्किणः । ब्रह्माणस्त्वा शतक्रतऽ उद्वंशमिवयेमिरे । त्रिपात् क्वचिज्जागताभ्याम् । आद्ये गायत्रे सति । जागताभ्यां त्रिपदानुष्टुब् यथा'सुश्रवः सुश्रवा असि यथा त्वं सुश्रवः सुश्रवा असि एवं मां सुश्रवः सौश्रवसं कुरु ।' मध्येऽसे च । जागतयोर्मध्ये असे वा गायत्रे त्रिपदानुष्टुब् यथा-तत्र मध्यगायत्रा यथा—'पर्यषु प्रधन्ववाजं सातये परिवृत्राणि सक्षणिः । द्विषस्तरध्या क्षणयाम ईयसे ।' अन्त्यगायत्रा यथा – ' मा कस्मै धातमभ्यमित्रिणेनो मा कुत्रा नो गृहेभ्यो धेनवः । स्तनाभुजो अशिश्वीः ।' वैराजैर्वा । दशाक्षरैरपि त्रिपदा यथा - 'पिबा सोममिन्द्रमंदतु त्वा यंते सुषाव हर्यश्वाद्रिः । सोतुर्बाहुभ्यां सुयतो नार्वा ।' काविराड् नवद्वादशभिः । यथा - 'ता विद्वांसा हवामहे वाम् । तानो विद्वांसा मन्मवोचेतमद्य । प्रार्चत्दयमानो युवाकुः । नष्टरूपी नवट्प्रात्रयोदशैः । यथा - 'विप्रच्छामिपाक्यान् न देवान् वषट् कृतस्याद्भुतस्य दस्राः पातं च सह्यसो युवं चरभ्यसोनः ।' तनु शिरा एकादशैकादशषड्भिः । यथा - 'प्रया घोषे मृगवाणे न शोभे यया वाचा यजति पत्रियो वाम् । प्रेषयुर्न विद्वान् ।' पञ्चपञ्चका षट्कान्त्या महीपदपङ्क्तिः । यथा - ' नीललोहितं भवति कृत्या सक्तिर्व्यज्यते ।' इत्यनुष्टुबधिकारः ।
बृहती जागतस्त्रयश्च गायत्राः । श्राद्ये जागते त्रिषु गायत्रेषु बृहती यथा'इन्द्र ं धनस्य सातये हवामहे । जेतारमपराजितम् । स नः पर्षदतिद्विषः । स नः पर्षदतिस्तिधः पथ्या पूर्वस्थे तृतीयः । पूर्वजागते तृतीये सति पथ्या बृहती यथा - 'उभयं श्रुणुवच्च न इन्द्रो अर्वागिदं वचः । सत्राच्या मघवा सोमपीतये । धिया सविष्ठ आगमत् ।' न्यङ्कुसारिणी द्वितीयः । जागते द्वितीये सति यथा'प्रतिविश्वानि दुरिता राजानश्चर्षणीनामतिद्विषः । शुनमस्मभ्यमूतये वरुणो मित्रो अर्यमा ।' स्कन्धोद्गीती क्रोष्टुकेः, उरो बृहती यास्कस्य । क्रोष्टुकियास्काचार्ययोर्मते न्यङ्कुसारिण्या एते संज्ञ े स्तः । उपरिष्टाद्बहस्प ( प ) ते । अंह्ये जागते उपरिष्टाद्वृहती यथा - ' तद्धि वयं वृणीमहे वरुणमित्रार्यमन् येनानिरंहसो यूयम् । पाथने था च मर्त्य मतिद्विषः । पुरस्ताद्बृहती पुर: ।' ग्राद्ये जागते सति गतार्थमपि विशेषसंज्ञार्थम् । विष्टा र बृहत्यष्टदशदशाष्टभिः । यथा 'दुवं ह्यास्तं महोरन् युवं वायं निरततं सन्तम् । ता नो बभ्रू सुगोपा स्यातम् । पातं नो वृकादद्यायोः । क्वचिन्नवकाच्चत्वारः । यथा - ' - 'अनाधृष्यमनाधृष्यं, देवानामोजोऽभिशस्तयाः । श्रनभिशस्त्यञ्जसामुपगेषां स्वितेमघाः ।' वैराजो गायत्रौ च । दशाष्टकपदा बृहती यथा - ' - 'उषो वाजं हि वं (स्वयं) चित्रो मानुषे जने । तेनावह सुकृतो श्रध्वरामुपये त्वा गृणन्ति वह्नयः' । त्रिभिर्जागतैर्महाबृहती यथा – 'अजीजनोऽग्रमृतमर्त्येष्वांऋतस्य धर्मन्नमृतस्य चारुणः । सदा सरोवाजमच्छास निष्यदत् । सनो बृहती ताण्डिनः । '

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120