Book Title: Vruttamuktavali
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan

View full book text
Previous | Next

Page 51
________________ १२ ] वृत्तमुक्तावली कं. 'सप्तविंशत्यास्तुवत द्यावापृथिवी व्यैतां वसवो रुद्रा आदित्या अनुव्यायंस्त एवा. धिपतय आसन्' । ३६ अथ ब्राह्मी पङ्क्तिविविच्य प्रदर्श्यते-गा. उ. अ. ब. पं. त्रि. ज. ..३६ ४२ ४८ ५४ ६० ६६ ७२ ब्राह्मी गायत्री यथा-अ. ६।१२ कं. 'एषा वः सा सत्या संवागभूद्ययेन्द्रं वाजमजीजपताजीजपतेन्द्रं वाजं वनस्पतयो विमुच्यध्वम्'। ३६ यथा वा-अ. ८६ कं. 'उपयाम गृहीतोऽसि बृहस्पतिसुतस्य देव सोम त इन्दोरिन्द्रियावत: पत्नीवतो ग्रहाँ ऋध्यासम्' । ३६ ब्राह्मी उष्णिग् यथा-अ. ६।१२ कं. 'एषा वः सा सत्या संवागभूद्यया बहस्पति वाजमजोजपताजीजपत बृहस्पति वाजं वनस्पतयो विमुच्यध्वम्' । ४२ यथा वा–अ. ६।११ कं. 'रेवति यजमाने प्रियं धा प्राविश । उरोरन्तरिक्षात्सतर्देवेन वातेनास्य हविषस्त्मना यज समस्य तन्वा भव' । ४२ ब्राह्मयनुष्टुब् यथा-अ. ११८ कं. 'देवानामसि वह्नितम सस्नितमं पप्रितमं जुष्टतमं देवहूतमं अह्र तमसि हविर्धानं दृहस्व मा ह्वार्मा ते यज्ञपतिर्षीित् ॥ ४८ यथा वा-अ. ३।१६ कं. 'सं त्वमग्ने सूर्यस्य वर्चसागथा: समृषीणा स्तुतेन । सं प्रियेण धाम्ना समहमायुषा सं वर्चसा सं प्रजया स . रायस्पोषेण ग्मिषीय' ॥ ४८ ब्राह्मी बृहती यथा-अ. ४।१५ कं. 'पुनर्मन: पुनरायुर्मागन् पुनः प्राणः पुनरात्मा म आगन् पुनश्चक्षुः पुनः श्रोत्रं म अागन् । वैश्वानरो अदब्धस्तनूपा अग्निर्नः पातु दुरितादवद्यात्' । ५४ यथा वा-अ. ११५८ कं. 'परमेष्ठी त्वा सादयतु दिवस्पृष्ठे ज्योतिष्मतीम् । विश्वस्मै प्राणायापानाय व्यानाय विश्वं ज्योतिर्यच्छ । सूर्यस्तेऽधिपतिस्तया देवतयाऽङ्गिरस्वद् ध्रु वा सीद'। ५४ एवं ब्राह्मी पङ्क्तिस्त्रिष्टुब्जगती च वेदे यथालक्षणं द्रष्टव्या। अथ पार्षी पङ्क्तिर्विविच्य प्रदर्श्यते-गा. उ. अ. बृ. पं. त्रि. ज. २४ २८ ३२ ३६ ४० ४४ ४८ आर्षी गायत्री यथा-'अग्नि दूतं वृणीमहे होतारं विश्ववेदसम् । अस्य यज्ञस्य सुक्रतुम्' । आर्षी उष्णिग् यथा-'अग्ने वाजस्य गोमत ईशानः सहसो यहो । अस्मे धेहि जातवेदो बहिः श्रवः'। एवमार्योऽनुष्टुवादयोपि । इति । दैव्यादि च्छन्दोऽष्टकमुदाहृत्य प्रदर्शितम् । गायत्री चतुर्विंशत्यक्षरा यथा-अ. २।४ कं. 'वीतिहोत्रं त्वा, कवे द्युमन्तं समिधीमहि अग्ने बृहन्तमध्वरे ।' यथा वा-'समिधाग्नि दुवस्य त धृतर्बोधयतातिथिम् । आस्मिन् हव्या जुहोतन' । एकपदा गायत्री यथा-'अग्निर्योतिर्योतिरग्निः स्वाहा' । सूर्यो ज्योतिर्योतिः सूर्यः स्वाहा ।' यथा वा-'अग्निर्व! ज्योतिर्वर्चः स्वाहा' । स्वराड् गायत्री यथा वा-अ. १७।४ कं. 'समुद्रस्य त्वावकयाग्ने परे व्ययामसि । पावको अस्मभ्यं शिवो भव' । २५

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120