Book Title: Vruttamuktavali
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan
View full book text
________________
१८]
वृत्तमुक्तावली
षट्पञ्चाशदक्षरा यथा - प्र. ३४।५१ कण्डिका- 'न तद्रक्षांसि न पिशाचास्तरन्ति देवानामोजः प्रथमज ह्येतत् । यो बिर्भात दाक्षायणं हिरण्य स देवेषु कृणुते दीर्घमायुः स मनुष्येषु कृणुते दीर्घमायुः' । ५६ 'एवमतिजगती द्विपञ्चाशदक्षरा सा यथा--अ. ९।५ कण्डिकायाम् । 'वाजस्य नु प्रसवे मातरं महीमदिति नाम वचसा करामहे । यस्यामिदं विश्वं भुवनमाविवेश तस्यां नो देवः सविता धर्मसाविषत्' ।। ५८ एवमष्टचत्वारिंशदक्षरा जगती सा यथा - अ. हा 'जवो यस्ते वाजिन्निहितो गुहा यः श्येने परीतो अचरच्च वाते । तेन नो वाजिन् बलवान् बलेन वाजजिच्च भव समने च पारयिष्णुः ' ॥ ४८
"
इहानुक्तान्युदाहरणानि सर्वानुक्रमण्यादी विशिष्य परीक्षणीयानि । इति वैदिक च्छन्दसामुदाहरणानि संक्षेपतः प्रदर्शितानि ॥
इति श्रीवृत्तमुक्तावल्यां श्रीकृष्णकविप्रकाशितायां वेदच्छन्दः प्रकरणं नाम प्रथमो गुम्फः ।।
श्रथ द्वितीयो गुम्फः
अमन्दस्वानन्दप्रकरमकरन्दद्रवभृतं नखालीकिञ्जल्कद्युतिललित रक्तांगुलिदलम् । सदा विद्वच्चेतो मधुपसुखहेतोर्विकसितं भजे भूयः शम्भोश्चरणयुगमम्भोजसुभगम् ॥ १॥ न्दे पिंगलनागमुद्भवति यः स्वच्छन्दधीश्छन्दसामाचार्यत्वमुपेत्य पूरितकलावर्णप्रसारार्णवः । अत्तुं यो विधृतः स्वजातिविदुषा तार्येण तस्मै पुनः स्वां विद्यां प्रतिबोधयन्न तिजवः सिन्धोस्तटान्तं ययौ ॥ २ ॥ अस्ति प्रत्यर्थिपृथ्वीपरिवृढवनिताने त्रनीराब्धिनियंकोर्तिश्री पूर्णचन्द्रद्युतिदलितनभोभूतलध्वान्तजालः । प्रातन्वानः प्रतापावलिमनभिमतक्षोणिसीमान्तभीमां श्रीमान् राजाधिराजः सततमखगणप्रीतगीर्वाणराजः ।। ३ ।। जागति ज्वलदुज्ज्वलोज्ज्वलवलज्ज्वालावलीताण्डव
प्रक्षीणप्रतिपक्षपत्तनपुरग्रामाच्छधामालयः ।

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120