Book Title: Vruttamuktavali
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan
View full book text
________________
२८ ]
वृत्तमुक्तावल्याम् गोवर्द्धनधारक भवसन्तारक निवंतिकारकगुणगानम् ।
प्रणमामि सुधादनमानसमादनमुरलीवादनसुविधानम् ।। २४ ।। अथ कुण्डलिका
द्विपथावृत्तं काव्यवृत्तं चेति वृत्तद्वयात्मकं कुण्डलिकाच्छन्दः । द्विपथान्ते काव्यादौ, काव्यान्ते द्विपथादौ च लाटानुप्रासो नियमेन कार्य इति संप्रदायः । उक्तञ्च जयगोविन्दवाजपेयिभिः ।।
'यमकादिरलंकारो न वृत्ताङ्ग तथापि तत् ।
विशेषणीकृतं लक्ष्यप्रयोगनियमात्तथा' । यथा- वृन्दाविपिने वन्दिता वृन्दारकनिकरेण ।
राजति कापि कलिन्दजा तरलतरङ्ग भरेण । तरलतरङ्ग भरेण भरितभूमीतलशोभा निरवधिनिजलावण्यकलितलोचनयुगलोभा ॥ उन्मीलितकमलौघमिलितमदलुलितमिलिन्दा
मञ्जुलतरजलकेलिवशितगोपीजनवृन्दा ॥ २५ ॥ अथ गगनाङ्गम्'
यस्य चरणः पञ्चविंशत्या कलाभिः, विंशत्याऽक्षरै पूर्यते, किन्त्वादौ एकश्चतुष्कलोऽन्ते च गुरुनियतस्तद् गगनाङ्गं नाम छन्द: । केचिद् द्वादशभिर्यतिमिच्छन्ति। तद्यथा-आननसुरुचिविताननसरसिजकाननशोचना
खञ्जनचतुरिमगञ्जनसुहृदनुरञ्जनलोचना । नन्दतनयहृदसन्दसकलसुखकन्द गुणाधिका
रासधरणिनवलासवसतिरिह सा सखि राधिका ॥२६ ।। अथ द्विपदीच्छन्द:__यस्या अर्द्ध षोडशकल: ततो द्वादशकलो गणः, गणयोरन्ते यतिश्च, तद्विपदम् । यथा-दानवगञ्जन मुनिजनरञ्जन भयभञ्जनगुणभरिते।
त्वयि मम वन्दनमिह रघुनन्दन जगदानन्दनचरिते ।। २७ ।। अथ खञ्जा- . ___ यस्या अर्द्ध एकचत्वारिंशत्कलाः, षट्त्रिंशता लघुभिः शेषे रगणेन संपन्नाः सा खञ्जा। १. गगनाङ्गना, (छन्दःप्रभाकरे)।

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120