Book Title: Vruttamuktavali
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan

View full book text
Previous | Next

Page 66
________________ द्वितीयो गुम्फः . [ २७ अथ प्रज्झटिकाच्छन्दः यस्य पादेषु चत्वारश्चतुष्कला अनियता:, किन्त्वाद्यो जगणभिन्नः, ततोऽन्त्यो जगण एवेति तत्प्रज्झटिकम् । यथा-अभिराम कामशतरूपवाम खलकुलविराम कृतभक्त काम । धृतरत्नदाम लोचनललाम निजदिव्यधाम मयि धेहि राम ॥२० ।। अथारिल्लम्____ यस्य चरणे जगणभिन्ना द्विलध्वन्ताश्चत्वारश्चतुष्कला भवन्ति, तदरिल्लमिति लक्षयन्ति । उदाहरणेषु पुनः सगणचतुष्टयोत्तरं द्वे लघुनी इत्येव दृश्यते । यथा-बलधारण वारणमानविदारण । भवकारण दानववंशनिवारण । मुखचन्द्रसुधाकृतलोचनपारण। जय कृष्ण कृपाकर सेवकतारण ।।२१।। अथ पादाकुलकम् इदमेव (अरि०) अन्त्येन गुरुणा षोडशकलचरणं पादाकुलकम् । यथा-वदनसुधाकरमधुरिमसदनम् । निजतनुरूपपराजितमदनम् । भूभरहृतये रिपुकुलकदनम् । प्रणमत मङ्गलनामनिगदनम् ।।२२।। अथ पद्मावतीच्छन्दः यस्याश्चरणे अन्तगुर्वन्ताश्चतुष्कला अष्टौ गणाः सा पद्मावती । चरणकला द्वात्रिंशत् । अस्यां विषमस्थाने जगणं वर्जयन्ति । दशकलोऽष्ट कलश्चतुर्दशकलश्चेति वर्गत्रयेण कलानां विन्यासः कार्यः । वर्गान्त्यकलाया. पराऽमिश्रितत्वमात्रं विवक्षितं, न तु पादान्तपातित्वमिति तत्त्वम् । यथा-गोपालसखायं गोकुलरायं हृतमायं जलधरकायम् निजभक्तसहायं दलितापायं सुखदायं विपदवसायम् ।। मधुविपिननिकायं मधुरच्छायं कलितायं मुरलीगायम् तं कलय सदा यं ध्यायं ध्यायं पतति (ज)रामापदि नायम् ॥ २३ ॥ यथा वा व्रजभूनवनागर मधुरिमसागर लसदुज्जागरमहिमानम् जनमोदविधायक मङ्गलदायक हतसुरनायकमदमानम् ।। १. पद्धरि (छन्दःप्रभाकरे)

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120