Book Title: Vruttamuktavali
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan

View full book text
Previous | Next

Page 70
________________ द्वितीयो गुम्फः [३१ समुदितसप्तस्वरसततविकस्वरमुरलीरवखुरलीकलितम् कुञ्चितकुटिलालकमद्भुतबालकमहमीले लोचनललितम् ।। ४४ ।। अत्र दण्डकले चरणादौ कलाद्वयं न्यूनं क्रियते चेत्तदा लघुदण्डकल उत्प्रेक्षितो भवति। उदाहरणमन्यत्र द्रष्टव्यम् । एवं पद्मावत्यादौ सर्वत्र लघुपद्मावत्यादय उत्प्रेक्षणीयाः । अथ सिंहविलोकितमः यस्य चत्वारश्चतुष्कला अनि(य)तास्तुर्यः सगण एव तत्सिहविलोकितम् । यथा-नवमञ्जुलवजुलकुञ्जगतम् । रसवलितललितशिशुकेलिरतम् । वशवतिसकलपशुपालमतम् । हृदि कलय वहसि यदि पुण्यशतम् ॥४५ । अथ प्लवङ्गमच्छन्दः यस्य चरणे मादी गुरुस्ततश्चत्वारश्चतुष्कलास्ततो लघुस्ततो गुरुः, स प्लवङ्गमः । यथा-उन्मीलति किल दिशि दिशि भूरुहवल्लरी कूजति पिककुलमसहमनोभवझल्लरी। मानिनि पश्यतु भवती मधुरयमागतः संप्रति जल्पति पतिमबला सखि रागतः ॥ ४६ ।। अथ लीलावती: यस्याश्चरणे द्वात्रिंशन्मात्राः सा लीलावती। यथा-सेवकहृदयमरालमनोरथपूरकविमलयशोभरसरितम् विधिशिवशुकसनकादिगीततरसतत भीतभयहारकचरितम् । दानवनिवहनिवारणकारणमतिशयसुखपूरितदशहरितम् प्रणमत नन्दतनयमतिमञ्जुलजनमोहनमङ्गलगुणभरितम् ॥ ४७ ॥ अथ हरिगीतच्छन्दः यस्याश्चरणे प्रथमं पञ्चकलस्ततः षट्कलस्ततस्त्रयः पञ्चकलास्ततो गुरुरित्यष्टाविंशतिः कलास्तद्धरिगीतं नाम । यथा-नतपङ्कजासनकलितशासनमघनिरासनपण्डितम् व्रजभूमिपूषणमसुरदूरषणमुरुविभूषणमण्डितम् । जगदेकवन्दनहृदयनन्दनचरितचन्दनचारिणम् भज पल्लवाधरमुदितभाधरमिह धराधरधारिणम् ॥ ४८ ॥

Loading...

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120