________________
द्वितीयो गुम्फः
[३१ समुदितसप्तस्वरसततविकस्वरमुरलीरवखुरलीकलितम् कुञ्चितकुटिलालकमद्भुतबालकमहमीले लोचनललितम् ।। ४४ ।।
अत्र दण्डकले चरणादौ कलाद्वयं न्यूनं क्रियते चेत्तदा लघुदण्डकल उत्प्रेक्षितो भवति। उदाहरणमन्यत्र द्रष्टव्यम् । एवं पद्मावत्यादौ सर्वत्र लघुपद्मावत्यादय उत्प्रेक्षणीयाः ।
अथ सिंहविलोकितमः
यस्य चत्वारश्चतुष्कला अनि(य)तास्तुर्यः सगण एव तत्सिहविलोकितम् । यथा-नवमञ्जुलवजुलकुञ्जगतम् । रसवलितललितशिशुकेलिरतम् ।
वशवतिसकलपशुपालमतम् । हृदि कलय वहसि यदि पुण्यशतम् ॥४५ । अथ प्लवङ्गमच्छन्दः
यस्य चरणे मादी गुरुस्ततश्चत्वारश्चतुष्कलास्ततो लघुस्ततो गुरुः, स प्लवङ्गमः । यथा-उन्मीलति किल दिशि दिशि भूरुहवल्लरी
कूजति पिककुलमसहमनोभवझल्लरी। मानिनि पश्यतु भवती मधुरयमागतः
संप्रति जल्पति पतिमबला सखि रागतः ॥ ४६ ।। अथ लीलावती:
यस्याश्चरणे द्वात्रिंशन्मात्राः सा लीलावती। यथा-सेवकहृदयमरालमनोरथपूरकविमलयशोभरसरितम्
विधिशिवशुकसनकादिगीततरसतत भीतभयहारकचरितम् । दानवनिवहनिवारणकारणमतिशयसुखपूरितदशहरितम्
प्रणमत नन्दतनयमतिमञ्जुलजनमोहनमङ्गलगुणभरितम् ॥ ४७ ॥ अथ हरिगीतच्छन्दः
यस्याश्चरणे प्रथमं पञ्चकलस्ततः षट्कलस्ततस्त्रयः पञ्चकलास्ततो गुरुरित्यष्टाविंशतिः कलास्तद्धरिगीतं नाम । यथा-नतपङ्कजासनकलितशासनमघनिरासनपण्डितम्
व्रजभूमिपूषणमसुरदूरषणमुरुविभूषणमण्डितम् । जगदेकवन्दनहृदयनन्दनचरितचन्दनचारिणम् भज पल्लवाधरमुदितभाधरमिह धराधरधारिणम् ॥ ४८ ॥