________________
३२ ]
वृत्तमुक्तावल्याम्
अन्त्यगुरुमात्रेण हीनमनुहरिगीतम् । यथा-नवकोकिलाकुलललितकलकलकलितजागरकाम
मतिधीरमलयसमीरधोरणिवलितमधुकरदाम । सखि भूरिकुसुमपरागपूरितकुञ्जमजुलधाम परिपश्य मानिनि मधुदिनं रपणेन सन्तनु साम ।। ४६ ।।
यदा त्वनुहरिगीतस्यादौ कलाद्वयं वर्द्धते तदा मन्द्रगीतमुत्प्रेक्षितं भवति । यथा-जलधरधामधारण मोहतारण भवनिवारणशील
मधुमुरनरकगञ्जन दुरितभञ्जन नयनरञ्जनलील । त्रिभूवनभव्यभावक निजजनावक कलितपावकपान
जय रसकेलिभाजन सुरसभाजन कृतसभाजनमान ।। ५० ।। अथ कलाद्वयह्रासे लघुहरिगीतम्यथा-मल्लिकानववल्लिकासुमतल्लिकारसपीन
मालिकानवमालिकाकमलालिकामधुलीन । सोऽधुना विकरालकालकलाकुलोद्यत एत्र
कुन्दकाननकौतुकी मा धाव मधुकर देव ॥ ५१ ।। अथ त्रिभङ्गी
पद्मावत्या एव चरणे दशभिस्ततो द्विरष्टभिस्तत: षड्भिश्चेद्य तिर्भवति, तदा त्रिभङ्गीनामकं छन्दः । यथा-वृन्दावनचारिणि नित्यविहारिणि (कलिमलहारिणि) हृतबाधे
हरिविरहनिवारिणि बहुसुखकारिणि भृशमभिसारिणि हृदगाधे । जितजगदौपम्ये निभृतनिशम्ये भक्तिनियम्ये दलिताधे गुरुगुणगणरम्ये निगमागम्ये मुनिजननम्ये जय राधे ।। ५२ ।।
यथा वा
शशिगर्वविमोचनरुचिभररोचनतिलकितरोचनशुभभाले खजनसंकोचनपङ्कजशोचनचपलविलोचनमृगबाले । वृषभानुतनूजे सुरकृतपूजे कोकिलकूजे सुखशाले जय सकलसभाजितरूपसभाजितहरितनुराजितवनमाले ।। ५३ ॥