________________
२६ ]
वृत्तमुक्तावल्याम् जय सेवकजनशरणचरण निश्चलकरुणाकर केशव मामिह पाहि वदनरुचिविजितसुधाकर ।। १५ ॥ लसदपारकरुणाविसारपरिगलदसारभव गोपदारगोकुलविहारधृतवेणुताररव ॥ दलितमारशतरूपसार माधुर्यभारधर
निर्विकारनरकृतविचार जय सदवतारकर ॥ १६ ॥ अथोल्लाललक्षणम्
'यस्य चरणे चतुष्कलत्रयं तथैकस्त्रिकलः, एवं पञ्चदशकला [विषमे] विधाय, षट्कल-चतुष्कल-त्रिकलात्मकः (त्रयोदशकलात्मकः) विषमचरणः' कार्यः । एवं दलद्वये कृते उल्लालाख्यं वृत्तं भवति । यथा-जय जानकीश जगदेकहित जन्मजराजनिदुःखहर ।
जय मन्दहसितसुखकन्दमुख जय जय रघुकुलकेलिकर ॥ १७ ॥ काव्यवृत्तं तथोल्लालवृत्तमिति वृत्तद्वयात्कं षट्पदवृत्तम्यथा-जय विबुधेशमहेशशेषवागीशकृतस्तव
जय निजजनसुखकरण तरुणकरुणैकसमुद्भव । जय वचनामृतदलितकलुषकलिकालमहादव मायामतपाखण्डखण्डखण्डनसुमहाजव । जय देव वल्लभाधीश जय जय सज्जनसेवितचरण । जय चारुचरितविरचनचतुर साकारश्रुतिमतधरण ॥ १८ ।।
यथा वा
अतिललामरमणीयधामनिर्दलितकाममद विगतकामभजनीयनाम मुखकलितकामपद । सकलयाममोहितसकामगोपीनिकामसुख
रत्नदामधर सदभिरामतामरसवाममुख । उद्दामदितिजसंग्राम जय सदायाम कामदचरण । जय चण्डधामसमधाम जय घनश्याम सज्जनशरण ॥ १६
१. समः (द्वितीयः, चतुर्थः) इति युज्यते
२. छप्पय (छन्दःप्रभाकरे)