Book Title: Vruttamuktavali
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan
View full book text
________________
[ १६
वृत्तमुक्तावली आशाकुज्जरकर्णतालबहलोद्भूतप्रचण्डानिलप्राप्तप्राज्यजवो जगत्यभिनवो यस्य प्रतापानलः ॥ ४ ॥ जातोज्जागर जेजिया'भिधकरस्तोमात्तभूमीरसप्रस्फूर्जद्यवनेन्द्रभास्वति कलिग्रीष्मेऽतिभीष्मे नृणाम् । भाग्यैर्यः प्रविराजतां प्रमुदितोऽजस्रं सहस्रं समाः सद्यः स्वोदयसंहृताऽखिलविपत्पीयूषपाथोधरः ॥ ५ ॥ मान्धाता सगरो भगीरथ इति ख्याता धरारक्षिणस्तैः पूर्वं कृतवाजिमेधमुखसद्यज्ञैर्यदेवार्जितम् । तद्धर्मामृतमिन्दुसुन्दरयशोवृन्दान्वितं संप्रति प्राज्ञानां सुखहेतवे वितनुते राजाधिराजः स्वयम् ।। ६ ॥ अत्यर्थं हयमेधमुख्यविलसद्यज्ञावलोकारिणो ये पूर्वं युवनाश्ववैण्यसगराद्याः संबभूवुर्नृपाः । तेषां कीर्तिरभूच्चिरेण भुवने सर्वत्र जीर्णेव या तामेतां सुनवीकरोति स भवान् राजाधिराजो नृपः ।। ७ ।। भूभृन्मौलिकिरीटलालितपदाम्भोजद्वयस्य प्रभोस्तस्यातिप्रसृतप्रसादपरमप्रेमप्रमोदस्पृशा। अत्यर्थं कवितोन्मुखेन मनसा नित्यं प्रयुक्तः कविः श्रीकृष्णः कुरुते रसज्ञसुखदां सद्वृत्तमुक्तावलीम् ॥ ८ ॥
अथ निखिलच्छन्दोगणघटकप्रथिताष्टगणगतये । गुरुलघुलक्षणमादौ कथयामि समस्तसंमतिं ज्ञात्वा ।। ६ ।। दीर्घः संयुक्तपरो बिन्दुविसर्गान्वितश्चापि ।
स गुरुरनृजुद्धिमात्रः, शुद्धककलो लघुर्भवत्यन्यः ॥ १० ॥ उदाहरणानि
आली भूषितवेषा शैशवशेषा मनोजमोदमयी । शोभासौरभसीमा दृष्टवती मामियं रहसि ॥ ११ ॥ स्फूर्जत्पर्जन्यगर्जद्विगुणगिरिगुहागर्भनिर्यत्सगर्वप्रोद्यत्पारीन्द्रवर्यप्रकलितपरमध्वानधिक्कारधुर्याः ।

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120