Book Title: Vruttamuktavali
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan
View full book text
________________
२० ]
वृत्तमुक्तावली कल्पान्तरसारस्वतविपुलवलल्लोलकल्लोलसंघर्षोद्घानुद्घाटयन्तो रघुधरणिपतेः सैन्यनिःसाननादाः ॥ १२ ॥ अञ्जनरञ्जनमञ्जुनि खजनतनुखञ्जताकरणे । गजितकञ्जवने तव नयने मम मानसं लग्नम् ॥ १३ ॥ रूपपराजितकामः कामतरु: कोपि याचकजनस्य । स जयति भृशमभिराम: श्रीरघुरामः सतां मनसि ।। १४ ।। लसदपघनरुचिजितनवजलधर, निजजननिवहभजनभवबलधर । क्षितिभरहरण नरकमधुमुरहर, जय जय कमलनयन नतपुरहर॥ १५॥ पादान्तस्थो लघुरपि वर्णः कुत्रापि भजति गुरुभावम् । अथ संयुक्तपरोऽपि क्वापि बिभोष लघुभावम् ॥ १६ ॥
यथा
नन्दकुमार नमस्ते वितर समस्तेश दर्शनं मह्यम् । हन्त न कि हरिदश्वः श्वपाकभवनं प्रकाशयति ? १७ ॥ सन्ततगभीरभवह्रदसुखदुःखतरंगमालयाऽऽकुलितः । स्वस्थहृदयः कदा स्यां कृष्ण त्वच्चरणतरणिमधिरुह्य ॥ १८ ॥
अथाष्टगणा:म-य-र-स-त-ज-भ-न-नाम्नामष्टानां छान्दसगणानाम् । भूजलपावककालव्योमार्कनिशाकराहयो देवाः । १६ मस्त्रिगुरुर्नस्त्रिलघुर्यरता लघ्वादिमध्यान्ताः । सद्भिस्तथैव बोध्या भ-ज-सा गुर्वादिमध्यान्ताः ॥ २० ॥ इह गुरुवर्णत्रितयप्रस्तारे संभवन्त्यष्टौ। मयरसतजभनसंज्ञो गणाः क्रमाच्छन्दसां घटकाः ॥ २१ ॥ मगणनगणौ सखायौ, भृत्यौ जानीत भगणयगणौ । तगणजगणावुदासौ ततोऽवशिष्टावुभौ रिपू भवतः ॥ २२ ।। स्यावृद्धि: स्थिरकार्यता मगणतो, दद्याद्य कारः सुखं . संपत्ती, मरणं करोति रगणस्तापं जकांराह्वयः । तोऽन्तःशून्यफलस्तनोति विषयोद्वासं, सकारः शुभं दत्ते, भो नगणाद्भवन्ति विजय-श्री-बुद्धि-वृद्ध यादयः ।। २३ ॥

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120