Book Title: Vruttamuktavali
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan

View full book text
Previous | Next

Page 62
________________ वृत्तमुक्तावली [ २३ दुरितभरहरणपटुतर भवभवभयभरितशरण गतिशुभकर। सुरनरनिकरदुरधिगमसुरुचिरतरचरितभरित जय जय मुरहर॥४३॥ अथ सिहिनी नारीचेतोहारी तेजोधारो ललामलोलाकारी। दत्तां शं कंसारी रासविहारी कृपाकरः कृष्णः ॥ ४४ ।। कलिकलितकलुषविदलनमगणितगुणभरितचरितचयचतुरिम । मह इह महय हृदय मम निरुपमतमममितममृतघनमधुरिम ॥ ४५ ॥ अथ स्कन्धकच्छन्दोलक्षणम् यत्र चतुर्मात्राकाः प्रसरन्त्यष्टौ गणाः सदा रमणीयाः । उभयोरपि दलयोस्तत् स्कन्धाख्यं वृत्तमद्भुतं वित्त ॥ ४६॥ अथोदाहरणे राका राधाकारा राकाकारा रराज रासे राधा । अन्या गोभृत्कन्यास्तारा मन्यामहे सुधन्यं मन्याः ॥ ४७ ।। अतुलितभुजबलजलनिधिलहरितनिजबलगतुरगतरलितपरबल । गुणगणधवलिमधवलित निजजनमतिरमण जयसि रघुकुलपरिवृढ।।४८ इति सर्वगुरुप्रमुखा भेदाः प्रसरन्ति सर्वलघुमुख्याः । सर्वेषां वृत्तानां विज्ञेयाः कोविदः कविभिः ॥ ४६ ।। अत्रेदं बोध्यम्- एतेषु गाथाप्रभेदेषु चतुष्कलानां गणानां मध्ये षष्ठो गणस्तावज्जगण एव भवति चतुर्लघ्वात्मको वा भवतीति प्राचीननियमानुसारेण सर्वगुरुप्रभेदेषु लघुद्वयसत्त्वेऽपि न विरोधः, तथैव लक्षणनियमात् । इत्यास्तां तावत्। इति वृत्तमुक्तावल्यां गाथाप्रकरणम् त्र्यधिका' दश विरचय कला, मुहुरेकादशधाम । इति दलयुगलयुतं कलय, वृत्तं द्विपथा नाम ॥ १ ॥ यथा सनकादिकमुनिदुरधिगमपरमानन्दनिधान । पाहि पाहि सीतापते कृतभीताऽभयदान ।। २ ॥ १. त्रयोदश। २. 'दोहा' हिन्दी छन्दः प्रभाकरः ।

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120