Book Title: Vruttamuktavali
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan
View full book text
________________
वृत्तमुक्तावली अथ द्विगणविचार:
मित्रान्मित्रं सुखानि प्रकटयति ततो राति भृत्यः स्थिरत्वं कार्गे युद्धे जयं च प्रथयति बहुधा कार्यबन्धानुदासः । मित्राच्छत्रुश्च गोत्रस्वजनरुजमथो भृत्यतो मित्रभृत्यौ कल्याणायैव वित्तक्षयरिपुभयदावप्युदासीनशत्रू ॥ २४ ॥ अत्रोदासीनमित्रे किमपि कलयतः कार्यविघ्नं पुरस्ताद्भव्यायोदासभृत्यौ न हि शुभमशुभं चापि चेवावुदासौ । कृत्वोदासीनशत्रू जनयति रिपुतां गोत्रजेऽप्येवमुच्चैः शत्रोश्चेन्मित्रभृत्यानुभयरिपुगणाः श्रेयसे नैव ते स्युः ॥ २५ ॥
अथ छन्दोनिरूपणम्मात्रा-वर्णविभेदेन वृत्तद्वैविध्यमीरितम् । तत्र संख्यातमात्राणि वृत्तान्यादौ प्रचक्ष्महे ।। २६ ॥
तत्रादौ गाथाप्रभेदाः जानीत गाथिका-गाथा-विगाथोद्गाथिकायुताः । गाथिनी सिंहिनी स्कन्धेत्यार्याः सप्तव कोविदाः !! ।। २७ ।। भवति चतुःपञ्चाशन्मात्राभिर्गाथिका नाम । गाथा तद्द्वयधिकाभिस्तविपरीता विगाथा स्यात् ।। २८ ॥ उद्गाथा षष्टिकला द्वाषष्टिकला च गाथिनी ज्ञेया।
तद्विपरीता सिंही भजति स्कन्धा कलाश्चतुःषष्टिम् ॥ २६ ॥ अथ गाथिकालक्षणम् -
यस्यामुभयोर्दलयोः सप्ताधिकविंशतिर्मात्राः ।
प्रत्येक विधृताः स्युर्गेया सा गाथिका नाम ॥ ३० ॥ सा सर्वगुरुर्यथा -
श्रीरामाज्रिध्यानप्रोद्भूताऽशेषकल्याणः ।।
धर्माध्वत्राताऽद्य श्रीमान् राजाधिराजोऽयम् ॥ ३१ ।। सर्वलघुर्यथा -
विषमसमरजयपटुतर लसदसिपरिकलितपृथुभुजबल ।
कमठकुलकलशनरवर जय जय नयनिलय जितपरबल ॥ ३२ ।। अथ गाथालक्षणम् -
पूर्वार्द्ध त्रिंशत् स्युः परतोऽपि च सप्तविंशतिर्मात्राः । तहि भवेत् सा गाथा तद्विपरीता विगाथा स्यात् ॥ ३३ ।।

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120