Book Title: Vruttamuktavali
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan
View full book text
________________
४ ]
वृत्तमुक्तावली
जनयन्ति शब्दशास्त्रे वैकल्पिकरूपज्ञानवदधिकशास्त्रज्ञाने धर्माधिक्यफलत्वात् । केचित्तु । सप्तकयोर्मध्ये षट्कश्चेत्पादनिवृदिति सूत्रयन्ति । यथा - ' - 'पुरूत्तमं पुरूणां स्तोतृणां विवाचि वाजेभिर्वाजयतां' षट्सप्तकयोर्मध्येऽष्ट। वतिपादनिवृत् । यथा 'प्रेष्ठं वो अतिथि स्तुषे मित्रमिव प्रियम् अग्नि रथं न वेद्यम् ।' द्वौ नवकौ षट्काश्च सा नागी | नवकयोरन्ते षट्के नागी यथा – 'अग्ने तमद्याश्वं न स्तोमैः क्रतुं न भद्रं हृदिस्पृशं ऋध्यामातऽप्रहैः ।' विपरीता वाराही । श्राद्ये षट्के वाराही गायत्रो बोध्या । द्वौ षट्को सप्तकश्चरुसीयसी यथा । ' इन्द्रः सहस्रदान्नाम् । वरुणः श ँ, स्यानाम् । क्रतुर्भवत्युक्थः, षट्सप्ताष्टकैर्वर्द्धमाना । यथा - 'एषो उषा पूर्व्या । व्यच्छति प्रियादिवः स्तुषेवामश्विना बृहत् ।' विपरीता प्रतिष्ठा । अष्ट सप्तषट्कचरणा यथा— ' आपः पृरणीत भेषजम् वरूथं तन्वे मम ज्योक्व सूर्यं दृशे । ' क्वचित्तु सप्तषडष्टकचररणा गायत्री दृश्यते । यथा - 'पुरूतमं पुरूणामीशानं वार्याणाम् । इन्द्रं सोमे सचासुते । तृतीयं द्विपाज्जागतगायत्राभ्याम् । तृतीयशब्दो ‘गायत्र्या वसव' इत्यतो 'विराजो दिश' इति तृतीयसूत्रस्थं विराजमाह, तेन जागतगायत्राभ्यां द्विपदा विराड्गायत्री भवति । यथा - ' शुक्रः शुशुष्कां उषो न जारः पप्रा समीचो दिवो न ज्योतिः ।' त्रिपात् त्रष्टुभैः । त्रिभिस्त्रैष्टुभैस्त्रिपदा विराड् यथा - - 'दुहीयन्मित्र धितये युवाकु राये च नो मिमीतं वाजमत्यै । इषे च नो मिमीतं धेनुमत्यै ।' इति गायत्र्यधिकारः ।
उष्णिग्गायत्री जागतश्च । स्पष्टम्, यथा - ' शमग्निरग्निभिः करछन्नस्तपतु सूर्यः । शं वातो वा त्वरया अपस्तिध: ।' ककुम्मध्ये चेदन्त्यः । अन्त्यो जागतो गायत्रयोर्मध्ये चेत्ककुबुष्णिग् भवति । यथा - ' - 'सुदेव: समहासति सुवीरो नरो मरुतः समर्त्यः । यं त्रायध्वे स्यामते ।' पुर उष्णिक् प्रत: । आद्ये जागते सति, यथा'तच्चक्षुर्देवहितं शुक्रमुच्चरत् । पश्येम शरदः शतं जीवेम शरदः शतम् ।' परोष्णिक परतः । अन्त्ये जागते सति । पूर्वसूत्र ेण गतार्थमपि विशेषसंज्ञार्थमिति हलायुधभट्टा, अन्यैस्तु न पद्यते । त्रैष्टुभजागतचतुष्कैर्न्यकुशिराः विषमो ष्टुभो समौ जागतौ चेच्चतुष्पदा न्यङ्कुशिरा उष्णिग्, यथा - 'परावतो ये दिधिषन्त प्राप्यं मनुप्रीतासोजनिमा विवस्वतः । ययातेर्ये नहुष्यस्य बर्हिषि देवा श्रासते ते अधिब्रुवन्तु नः ।' आद्यः पञ्चकस्त्रयो गायत्रा उष्णिग्गर्भाः । चतुष्कैरित्यनुवर्तते । आद्ये पञ्चके उष्णिग्गर्भोष्णिग् यथा - 'पितुं नुस्तोषं महोधर्माणां तविषीं । यस्य त्रितो व्योजसा वृत्रं विपर्वमर्दयत् । चतुष्पादृषिभिः । सप्तकचरणा चतुष्पदोष्णिग् यथा - 'सवितुष्ट्वा प्रसव उत्पुनाम्यछिद्रेण पवित्रेण वसोः सूर्यस्य रश्मिभिः । इत्युष्णिगधिकारः ।
अनुष्टुब् गायत्रैः। चतुष्कैरित्यनुवृत्तेश्चतुर्भिर्गायत्रैरनुष्टुब् । यथा - 'गायन्ति

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120