Book Title: Vruttamuktavali
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan

View full book text
Previous | Next

Page 46
________________ वृत्तमुक्तावली [७ कोऽन्ये षट्कास्तदा शकुमती गायत्री बोध्या। छन्द इति प्रकृतेपि पुनर्ग्रहणात्तादृगुष्णिगादिरपि शकुमती। षट्के ककुद्मती। एकस्मिन् षट्केऽन्येषु यथा लक्षणेषु गायत्र्यादिः ककुद्मती भवति । त्रिपादणिष्ठमध्यत्वात्पिपीलिकमध्या। त्रिपादित्यविवक्षितम् । मध्ये अन्त्याक्षरेषु अन्येषु च बह्वक्षरेषु अणुमध्यत्वात्पिपीलिकमध्या गायत्र्यादिः । विपरीता यवमध्या। मध्येऽल्पके । न्यूनाधिकेनैकेन निद्भुरिजौ । चतुर्विंशत्याद्यक्षरा गायत्र्यादिरेकाक्षरेण न्यूनत्वाधिक्याभ्यां निच द्भुरिजसंज्ञ लभते । द्वाभ्यां विराटस्वराजौ। द्वयक्षरन्यूनाधिकयोरेते संज्ञ। आदितः सं (ज्ञ)दिग्धे । यदा षड्विंशत्यक्षरं छन्दस्तदा किं गायत्री उताहो उष्णिग्विराडित्येवमादौ संदिहानेनादिचरणानिर्णयोऽवसेयः । प्राद्ये गायत्रे गायत्री, आये औष्णिहे उष्णिक इति । देवतादितश्च । इदमपरं निर्णायकम् । आग्नेयी चेद्गायत्री सावित्री चेदुष्णिगिति । प्रादिशब्दात्स्वरादिः। तथाह । 'अग्निः सविता सोमो बृहस्पतिवरुण इन्द्रो विश्वे देवाः।' गायत्र्यादीनां जगत्यन्तानां क्रमादेता देवताः स्वराः षड्जादयः । षड्जादिनिषादान्ताः सप्त स्वरा गायत्र्यादेः। सितहरितपिशङ्गकृष्णनीललोहितगौरा वर्णाः, आग्निवेश्यकाश्यपगौतमाङ्गिरसभार्गवकौशिकवाशिष्ठानि गोत्राणि । सर्वेषामुदाहरणानि वेदे, देवतादेश्च निर्णयः सर्वानुक्रमण्यादौ परीक्षितव्यानि । इति गायत्र्यादिप्रकरणे तृतीयाध्यायसूत्राणि । - चतुःशतमुत्कृतेः। यत्र चतुरधिकं शतमक्षराणि सोत्कृतिः । चतुरश्चतुरस्त्यजेदुत्कृतेः । चतुरधिकशताङ्कादारभ्य चतुर्भिश्चतुभिरूना अङ्काः स्थाप्या अष्ट चत्वारिंशदन्तम् । तान्यतिसम्या(ज्ञा)प्तेभ्य: कृतिः । तान्युत्कृतेरनन्तराणि पञ्चभ्य उपसर्गेभ्यः पराणि कृतसंज्ञानि स्युः। यथा शताक्षरमतिकृतिः। षण्णवतिक संकृतिः । द्वानवतिकं विकृतिः । अष्टाशीतिकमाकृतिः । प्रकृत्या च अनुपसु(स)ष्टा कृतिरशीतिकं भवति । धृत्यष्टिशक्वरीजगत्यः । कृतेः परेष्वङ्कष्वेताश्चतस्रः संज्ञाः पृथक् पृथक् पूर्वत एतान्येषाम् । एषां धृत्यादीनां पूर्वत्यक्ताङ्केषु धृत्यष्टयाद्या एव संज्ञाः स्थाप्या: । द्वितीयं द्वितीयमतितः। प्रथमोक्ता धृत्यादिद्वितीयं द्वितीयं नाम प्रथमं यच्छब्दरूपं तदतिशब्दात्प्रयोज्यम् । यथा षट्सप्ततिकमतिधृतिः, द्विसप्ततिकं धृतिः । अष्टषष्टिकमत्यष्टिः, चतुः षष्टिकमष्टिरिति। एवमतिशक्वरीशक्वयंतिजगतीजगत्यश्च । यथा-उत्कृतिः । अतिकृतिः । संकृतिः । विकृतिः । प्राकृतिः । प्रकृतिः । कृतिः । अतिधृतिः। धृतिः। अत्यष्टि: । अष्टिः। अतिशक्वरी शक्वरी। अतिजगती । जगती। ॥१०४।१००६६।६२।८८८४८०७६।७२।६८।६४।६०। ५६।५२।४८॥ तत्र दिङ्मात्रमुदाहरणं जगत्युक्तं व । अतिजगती यथा-'गन्ता नो यज्ञ यज्ञियाः सुशमिश्रोताहवमरक्ष एव या मरुत् । ज्येष्ठासो न पर्वतासो व्योमनि यूयं तस्य प्रचेतसः स्यातदुद्धर्तवोनिदः।' शक्वरी यथा-'न तद्रक्षांसि न पिशाचाश्चरन्ति HHHHHHHHHH

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120