Book Title: Vruttamuktavali
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan

View full book text
Previous | Next

Page 42
________________ वृत्तमुक्तावली अनुष्टुब् यथा— 'इषे त्वा ।' देवी बृहती यथा - 'भूर्भुवः स्वः ।' देवी पङ्क्तिर्यथा'भूर्भुवः स्वरोम् ये यजामहे ।' एवं त्रिष्टुब्जगत्यौ । आसुरी गायत्री यथा'धिषणासि पार्वती प्रति त्वा दिया [त्या] स्त्वग्वेत्तु ।' श्रसुर्यनुष्टुब् यथा - 'देवानां प्रतिष्ठे स्थः । सर्वतो मा यातम् । एवमुष्णिगाद्याः । प्राजापत्या गायत्री यथा'अमृतापिधानमसि ।' याजुषी गायत्री यथा – 'इन्द्राग्निभ्यां स्वाहा ।' एवमन्याः । प्रायश एता उदाहरिष्यमाणेषु परीक्षितव्याः । इति वैदिके द्वितीयाध्यायसूत्राणि ॥ यथा-' अथातो विशेषसंज्ञाश्चरणनिर्णयश्च प्रदर्श्यते - पादः । अधिकारोयमापादसमाप्तेः । यदित ऊर्ध्वं वक्ष्यामस्तत्र पाद इत्युपतिष्ठते । वक्ष्यति हि 'गायच्या वसव' इत्यादि । इयादिपूरणः । इयादिपूरणो यस्य सः । श्रादिशब्दादुवोऽपि तेन नियमितश्चरणो यत्र पूर्यते तत्रेयोवाभ्यां पूरणीयः । यथा - ' त्र्यम्बकम् त्रियम्बकम् ।' 'स्व:पवते' 'सुवःपवते' इत्यादि । एवमन्यत्राप्यच् सन्धेः प्रकृत्यादिना पूर्तिरपि । प्रकृत्यान्तः पादमन्ये परे इत्यादिसूत्रानुगुण्यसिद्धयानुसंधेयम् । लिङ्गादिव्यत्ययवत् । गायत्र्या वसवः । गायत्र्याश्चरणो यत्राधिधास्यते तत्राष्टाक्षरो ग्राह्यः । यथा 'अग्निमीळ' इत्यादि । जगत्य श्रादित्याः । जागतश्चरणो द्वादशाक्षरो ग्राह्यः, - ' येन सूर्यज्योतिषा बाधसे तमो जगच्च विश्वमुदियर्षभानुना । तेनास्मद्विश्वा मनिरामनाहुतिमपामीवामपदुःस्वप्न्य, सुव ।' विराजो दिशः । वैराजः पादो दशाक्षरो ग्राह्यः । 'अस्ये देव शवसा शुषन्तं वि वृश्चद्वत्रेण वृत्रमिन्द्रः । गा नवाणा अवनीरमुञ्चदभि श्रवो दावने स चेताः । एतां पङ्क्तिमाहुरन्ये । त्रिष्टुभो रुद्राः । त्रैष्टुभ एकादशाक्षरो ग्राह्यः, यथा - - 'हिरण्यरूपः स हिरण्यसंगपां नपात्सेदु हिरण्यवर्णः । हिरण्ययात्परि योनेर्निषद्या हिरण्यदा ददत्यन्नमस्मै ।' अत्राध्याये एताश्चतस्रः परिभाषाः । श्रत्र वैपरीत्येन त्रिष्टुब्जगत्योर्लक्षणादष्टाविंशत्यक्षराया उष्णिहः सप्ताक्षरः, द्वात्रिंशदक्षराया अनुष्टुभोऽष्टाक्षरः, षट्त्रिंशदक्षराया उष्णिहः सप्ताक्षरः, द्वात्रिंशदक्षराया श्रनुष्टुभोऽष्टाक्षरः, षट्त्रिंशदक्षराया बृहत्याः नवाक्षरश्चरणो ग्राह्य इत्येके । एकद्वित्रिचतुष्पादुक्तपादम् । उक्तः परिभाषितः पादोऽस्य तद्गायत्र्यादि तादृशैरेव चरणैः क्वचिदेकपात् क्वचिद् द्विपात् क्वचित्त्रिपात् क्वचिच्चतुष्पाच्च भवति । यथाष्टाक्षरचरणा गायत्री त्रिपदैव, तादृश्यनुष्टुप् चतुष्पदैव । द्वादशै (दश) कादशाक्षरपादा जगती, विरात्रिष्टुभश्चतुश्चरणा एवेति । श्राद्यं चतुष्पादृतुभिः । आद्यं गायत्रं षडक्षरचरणैश्चतुष्पाद् भवति । यथा - 'इन्द्रः शचीपतिर्बलेन वीलितः । दुश्च्यवनो वृषा समत्सुसाहसिः । क्वचित्त्रिपादृषिभिः । क्वचित्सप्ताक्ष रैस्त्रिपाद् गायत्रम्, यथा - 'य एकश्चर्षणीनां वसूनां मिरज्यति इन्द्रः पञ्च क्षितिनाम् ।' सा पादनिवृत् । सेयं सप्तकचरणा पादनिवृदिति संज्ञान्तरं लभते । एवंविधाश्च विज्ञाता विशेषसंज्ञाः श्रेयोविशेषं

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120