Book Title: Vruttamuktavali
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan
View full book text
________________
[ २ ]
छन्दोनिबद्धा एव शोभन्त इति प्रावर्तत विदुषां परम्परा | दर्शनम्, ज्यौतिषम्, श्रायुर्वेदः, व्याकरणं, कोष: यदेव विलिख्येत ग्राहोस्विदेतदाद्योपान्तं छन्दोबद्ध भवेदथवाऽऽद्यन्तयोस्तु नियतमेव तत्र श्लोका विलिख्येरन् । यः श्लोकं रचयितुं न जानाति स्म स नासीदक्षरमुखत्वेनावबुद्ध इति लोकप्रवृत्तिरासीत् । अत एवान्यान्यशास्त्रलेखका ये वराकाः सर्वथा कवित्वबीजभूतसंस्कारलेशशून्या अभूवन् ते ‘कुर्वेऽहन्तु यथामति' 'शुद्धां गुण्यां करोम्यहम्' इत्यादि विलिख्यैवाद्यन्तयोर्मङ्गलं कुर्वन्ति स्म ।
काव्यक्षेत्रे तु छन्दोयोजनापाटवं प्राथम्यमेवाऽभजत् । प्रस्तारक्रमेणाssविर्भूतानामनेकेषां वृत्तभेदानां सृष्टिरभूत् । तत्राऽपि विविधविषयानभिव्यञ्जयितुं तत्तदनुकूलानां वृत्तजातीनां प्रयोगे प्रौढिः स्वारस्यं चेति काव्यशास्त्रमर्मज्ञानां परम्पराः प्रासरन् । छन्दो न खलु बाह्या सामग्री, अपि तु विषयमभिव्यञ्जयितुं, रसोद्र के प्राबल्यमास्थापयितुं, वातावरण - वर्ण्यसामग्र्यादीनामानुकूल्येन रसचर्वणायाः सौहित्यमाधातुं तदिदमतीवोपयोगि, ग्राभ्यन्तरमङ्गमिति घण्टाघोषः कविकुलनेतृणां प्रासिध्यत् । 'कविकण्ठाभरण' - 'सुवृत्ततिलका' दिग्रन्थानां प्रणेत्रा क्षेमेन्द्रेण साधितं यत् - ' प्रावृट्प्रवासव्यसने मन्दाक्रान्ता प्रशस्यते ।' करुणवर्णने वियोगिनी वैशिष्ट्यमावहति, देवभावस्य संवर्धने शिखरिणी शोभते, उत्पात - वात्याऽऽदीनां प्रकटनाय स्रग्धरा सौन्दर्यमादधाति इत्यादि । ता एताः कविपरम्परास्तत्तद्वृत्तनिबद्धानां महाकविकर्मणां तत्तत्क्षत्रष्वतिशयमावहतां पदाङ्केष्वेव निर्मिता इति प्रकटमेव । मेघदूते मन्दाक्रान्ताया: सौन्दर्यातिशयं वीक्ष्य 'प्रावृट्प्रवासव्यसन' चित्रणे तस्या प्रानुकूल्यं नियतीकृतम् कुमारसम्भवे (रतिविलापप्रसङ्गे 'गत एव न ते निवर्त्तते स सखा दीप इवाऽनिलाऽऽहतः । अहमस्य दशेव पश्य मामविषह्यव्यसनेन धूमिताम् ।' इत्यादि) वियोगिनीवृत्तानां सौभगेन करुणवर्णने तस्या श्रानुकूल्यमापादितम् भवभूतेः, शंकराचार्यस्य, पण्डितराजजगन्नाथस्य च देवविषयरतिभावमुव्यञ्जयतां शिखरिणीच्छन्दसां सौन्दर्यमवलोक्य शिखरिण्या देवभावानुकूल्यं प्रसिद्धमभूत् ।
हिन्दीच्छन्दः स्वपि 'बरवै' सदृशानां कतिपयानां जन्मैव विरहादिविशिष्टपरिस्थितिष्वभूदिति तत्तद्रसोद्रेके तेषामतिशय प्रसिद्धोऽभूत् । सुप्रसिद्धमिदं हिन्दी कविसम्प्रदायेषु यद् बरवैछन्दसो जन्मेव नवाब्रखानखानासमये वियोगविह्वलायाः क्षत्रियवध्वा एकस्याः कारुण्यनिवेदनादभूत् । ऐतिह्यमिदामेवम्आसीत्कवीनां कल्पद्रुमस्य स्वयं चापि कवयितुर्नवाबखानखाना इति प्रसिद्धिमुफ्गतस्य सविधे कश्चित् क्षत्रिय राजपुत्रः सेवकः । स हि स्वामिनोऽनुमतिमादय निजदेशमुपगतः कृतवान् कयाचिच्चतुरया क्षत्रियकुमार्या परिणयम् । कांश्चिन्मा

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120