Book Title: Upasakdashangasutram
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
पूज्यैरुक्तः-'बन्र्धवहं छविछेदं अइभारं भत्तपाणवोच्छेयं । कोहादिदसियमणो गोमणुयाईण णो कुज्जा'॥१॥ तथा 'न मारयामीति कृतवतस्य, विनैव मृत्युं क इहातिचारः । निगद्यते यः कुपितः करोति, व्रतेऽनपेक्षस्तदसौ व्रती स्यात् ॥१॥ कायेन भग्न न ततो व्रती स्यात्कोपाद्दयाहीनतया तु भग्नम् । तद्देशभङ्गादतिचार इष्टः, सर्वत्र योज्यः क्रम एष धीमन् ! ॥२॥ इति । 'सहसाअभक्खाणे' ति सहसा-अनालोच्याभ्याख्यानम्-असदोषाध्यारोपणं सहसाऽभ्याख्यानं, यथा 'चौरस्त्वम् । इत्यादि, एतस्य चातिचारत्वं सहसाकारेणैव, न तीव्रसंक्लेशेन भणनादिति १, 'रहसाअभक्खाणे' ति रहः-एकान्तस्तेन हेतुना अभ्याख्यानं रहोऽभ्याख्यानम् , एतदुक्तं भवति-रहसि मन्त्रयमाणानां वक्ति-एते हीदं चेदं च राजापकारादि मन्त्रयन्तीति, एतस्य चातिचारत्वमनाभोगभणनात् , एकान्तमात्रोपाधितया च पूर्वस्माद्विशेषः, अथवा सम्भाव्यमानार्थभणनादतिचारो न तु भङ्गोऽयमिति २, 'सदारमन्तभेए' त्ति स्वदारसंबन्धिनो मन्त्रस्य-विश्रम्भजल्पस्य भेदः-प्रकाशनं स्वदारमन्त्रभेदः, एतस्य चातिचारत्वं सत्यभणनेऽपि कलत्रोक्ताप्रकाशनीयप्रकाशनेन लज्जादिभिर्मरणाद्यनर्थपरम्परासम्भवात्परमार्थतोऽसत्यत्वात्तस्येति ३, 'मोसोवएसे' त्ति मृषोपदेशः- परेषामसत्योपदेशः सहसाकारानाभोगादिना, व्याजेन वा यथा 'अस्माभिस्तदिदामिदं वाऽसत्यमभिधाय परो विजित' इत्येवंवार्ताकथनेन परेषामसत्यवचनव्युत्पादनमतिचारः, साक्षात्कारेणासत्येऽप्रवर्त्तनादिति ४, 'कूडलेहकरणे
१ बन्धवधं छविच्छेदमतिभारं भक्तपानव्युच्छेदम् । क्रोधादिदूषितमना गोमनुजादीनां न करोति ॥१॥ २ कुपितो वधादीन करोत्यसौ स्यान्नियमानपेक्षः ॥ १॥ मृत्योरभावानियमोऽस्ति तस्य, को० प्र०। ३ देशस्य भङ्गादनुपालनाच्च, पूज्या अतीचारमुदाहरन्ति ॥ २॥
Jain Education n
ational
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110