Book Title: Upasakdashangasutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 46
________________ उपासकदशाङ्गे ॥२२॥ र्घत्वाभ्यां जानुनी यस्य तत्तथा, विकृत-विकारवत्यौ भने-विसंस्थुलतया भुग्ने-वक्रे भ्रवौ यस्य पिशाचरूपस्य तत्तथा, कामदेवाइहान्यदपि विशेषणचतुष्टयं वाचनान्तरेऽधीयते-'मसिमूसगमहिसकालए' मषीमापिकामहिषवत्कालकं 'भरियमेहवण्णे' जलभृतमेघवर्ण । ध्ययनम् कालमेवेत्यर्थः, 'लम्बोटे निग्गयदन्ते प्रतीतमेव, 'अवदारिए'त्ति तथा 'अवदारितं' विवृतीकृतं वदनलक्षणं विवरं येन तत्तथा, तथा 'निर्लालिता' निष्काशिता अग्रजिह्वा-जिह्वाया अग्रभागो येन तत्तथा ततः कर्मधारयः, तथा शरटैः-कलासैः कृता मालिका-सक तुण्डे वक्षसि वा येन तत्तथा, तथा उन्दुरमालया-मूषिकस्रजा परिणद-परिगतं सुकृतं-सुष्ठ रचितं चिह्न-स्वकीयलाञ्छनं | | येन तत्तथा तथा, नकुलाभ्यां-गभुभ्यां कृते कर्णपूरे-आभरणविशेषौ येन तत्तथा, तथा साभ्यां कृतं वैकक्षम्-उत्तरासङ्गो येन तत्तथा, पाठान्तरेण 'मूसगकय भलए विच्छुयकयवेगच्छे सप्पकयजण्णोवइए' तत्र भुंभलयोत्त-शेखरः विच्छुयत्ति-वृश्चिकाः यज्ञोपवीतं-ब्राह्मणकण्ठसूत्रं, तथा 'अभिन्नमुहनयणनक्खवरवग्धचित्तकत्तिनियंसणे' अभिन्नाः-अविशीर्णा मुखनयननखा यस्यां सा तथा सा चासौ वरव्याघ्रस्य चित्रा-कर्बुरा कृत्तिश्च-चर्मेति कर्मधारयः, सा निवसन-परिधानं यस्य तचथा, ' सरसरुहिरमंसावलित्तगत्ते' सरसाभ्यां रुविरमांसाभ्यामवलिप्तं गात्रं यस्य तत्तथा, 'आस्फोटयन् । करास्फोटं कुर्वन् 'आभगर्जन्' घनध्वनि मुञ्चन् भीमो मुक्तः-कृतोऽदृट्टहासो-हासविशेषो येन तत्तथा, नानाविधपञ्चवर्णे रोमभिरुपचितं एक महन्नीलोत्पलगवलगुलिकातसीकुसुमप्रकाशमासं क्षुरधारं गृहीत्वा यत्र पोषधशाला यत्र कामदेवः श्रमणोपासकस्तत्रोपागच्छति स्मेति, इह गवलं-महिषश्टङ्ग गुलिका-नीली अतसी-धान्यविशेषः असिः खड्गः क्षुरस्येव धारा यस्यातिच्छेदकत्वादसौ क्षुरधारः, 'आसु २२॥ रत्ते रुटे कुविए चण्डिक्किए मिसीमिसीयमाणे त्ति एकार्थाः शब्दाः कोपातिशयप्रदर्शनार्थाः, ''अप्पत्थियपत्थिया' अप्रा Jain Education International For Personal & Private Use Only wwww.jainelibrary.org

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110