Book Title: Upasakdashangasutram
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
. अथ षष्ठे किमपि लिख्यते–'धम्मपण्णत्ति'त्ति श्रुतधर्मप्ररूपणा दर्शन-मतं सिद्धान्त इत्यर्थः, उत्थान-उपविष्टः सन् | यदूभिवति कर्म-गमनादिकं बलं-शारीरं वीर्य-जीवप्रभवं पुरुषकारः-पुरुषत्वाभिमानः पराक्रमः स एव सम्पादित-13 स्वप्रयोजनः, 'इति'उपदर्शने 'वा' विकल्पे, नास्त्येतदुत्थानादि जीवानां, एतस्य पुरुषार्थाप्रसाधकत्वात् , तदसाधकत्वं च पुरुषकारसद्भावेऽपि पुरुषार्थसिद्धयनुपलम्भात्, एवं च नियताः सर्वभावाः-यैर्यथा भवितव्यं ते तथैव भवन्ति, न पुरुषकारबलादन्यथा कर्तु शक्यन्ते इति, आह च-"प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः, सोऽवश्यं भवति नृणां शुभोऽशुभो वा । भूतानां महति कृतेऽपि हि प्रयत्ने, नाभाव्यं भवतिन भाविनोऽस्ति नाशः॥१॥" तथा "न हि भवति यन्न भाव्यं भवति च भाव्यं विनाऽपि यत्नेन । करतलगतमपि नश्यति | यस्य तु भवितव्यता नास्ति॥२॥" इति 'मङ्गुली'त्ति असुन्दरा धर्मप्रज्ञप्तिः श्रुतधर्मप्ररूपणा, फिस्वरूपाऽसावित्याह-अस्तीत्यादि,अनि| यताः सर्वे भावाः-उत्थानादेर्भवन्ति तदभावान्न भवन्तीतिकृत्वेत्येवंस्वरूपा, ततोऽसौ कुण्डकोलिकः तं देवमेवमवादीत-यदि गोशालकस्य सुन्दरो धर्मो नास्ति कर्मादीत्यतो नियताः सर्वभावा इत्येवंरूपो मङ्गलश्च महाबीरधर्मः अस्ति कर्मादीत्यनियताः सर्व भावा इत्येवंस्वरूपः, तन्मतमनूद्य कुण्डकोलिकस्तन्मतदूषणाय विकल्पद्वयं कुर्वन्नाह- तुमे णमित्यादि, पूर्ववाक्ये | यदीति पदोपादानादेतस्य वाक्यस्यादौ तदेति पदं द्रष्टव्यं इति, त्वयाऽयं दिव्यो देवादिगुणः केन हेतुना लब्धः? किमुत्थानादिना 'उदाहु' त्ति आहोश्चित् अनुत्थानादिना ?, तपोब्रह्मचर्यादीनामकरणेनेति भावः, यद्युत्थानादरभावेनेति पक्षो गोशालकमताश्रितत्वाद् भवतः तदा येषां जीवानां नास्त्युत्थानादि-तपश्चरणकरणमित्यर्थः 'ते' इति जीवाः किं न देवाः १, पृच्छतः अयमभिप्रायःयथा त्वं पुरुषकारं विना देवः संवृत्तः स्वकीयाभ्युपगमतः एवं सर्वजीवा ये उत्थानादिवर्जितास्ते देवाः प्रामुवन्ति, न चैतदेव
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110