Book Title: Upasakdashangasutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 82
________________ उपासकदशाङ्गे ॥४०॥ गोसाले मङ्खलिपुत्ते से णं महामाहणे उप्पन्नणाणदंसणधरे जाव तच्चकम्मसम्पयासम्पउत्ते से णं कलं इह हव्वमाग सद्दालच्छिस्सइ, तए णं तं अहं वन्दिस्सामि जाव पज्जुवासिस्सामि पाडिहारिएणं जाव उवनिमन्तिस्सामिपुत्राध्य. (सू.४०) महामाहना| 'एहिड' त्ति एष्यति, 'इहं' ति अस्मिन्नगरे, 'महामाहणे ति मा हन्मि-न हन्मीत्यर्थः, आत्मना वा हनननिवृत्तः परं । गमनोक्तिः प्रति ' मा हन' इत्येवमाचष्टे यः स माहनः, स एव मनःप्रभृतिकरणादिभिराजन्म सूक्ष्मादिभेदभिन्नजीवहनननिवृत्तत्वात् महामाहनो महामाहनः उत्पन्ने-आवरणक्षयेणाविभूते ज्ञानदर्शने धारयति यः स तथा,अत एवातीतप्रत्युत्पन्नानागतज्ञायकः, 'अरह'त्ति अर्हन् , महाप्रातिहार्यरूपपूजार्हत्वात्, अविद्यमानं वा रहः-एकान्तः सर्वज्ञत्वाद्यस्य सोऽरहाः, जिनो रागादिजेतृत्वात्, केवलानि-परिपूर्णानि शुद्धान्यनन्तानि वा ज्ञानादीनि यस्य सन्ति स केवली, अतीतादिज्ञानेऽपि सर्वज्ञान प्रति शङ्का स्यादित्याहसर्वज्ञः, साकारोपयोगसामर्थ्यात् , सर्वदर्शी अनाकारोपयोगसामर्थ्यादिति, तथा 'तेलोकवहियमहियपूइए' त्ति त्रैलोक्येन--त्रिलोकवासिना जनेन 'वहिय' त्ति समग्रैश्वर्यादतिशयसन्दोहदर्शनसमाकुलचेतसा हर्षभरनिर्भरेण प्रबलकुतूहलबलादानिमिषलोचनेनावलोकितः 'महिय' त्ति सेव्यतया वांछितः 'पूजितश्च' पुष्पादिभिर्यः स तथा, एतदेव व्यनक्ति-सदेवा मनुजासुरा यस्मिन् स सदेवमनुजासुरस्तस्य लोकस्य-प्रजायाः, अर्चनीयः पुष्पादिभिः वन्दनीयः स्तुतिभिः सत्करणीयः-आदरणीयः सन्माननीयोऽभ्युत्थानादिप्रतिपत्तिभिः, कल्याणं मङ्गलं दैवतं चैत्यमित्येवंबुद्धया पर्युपासनीय इति, 'तञ्चकम्म' त्ति तथ्यानि ॥४ ॥ सत्फलानि अव्यभिचारितया यानि कर्माणि-क्रियास्तत्सम्पदा-तत्समृद्धया यः सम्प्रयुक्तो-युक्तः स तथा ॥ 'कल्ल'मित्यत्र Jain Education anal For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110