Book Title: Upasakdashangasutram
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
उपासकदशाङ्गे
कामदेवा
ध्ययनम्
॥२१॥
कूचकेशाः, तथा 'कपिलकपिलानि' अतिकडाराणि, विकृतानीत्यादि तथैव, पाठान्तरेण 'घोडयपुंछ व तस्स कविलफरुसाओ उद्धलोमाओ दाढियाओ' तत्र परुषे-कर्कशस्पर्शे ऊर्ध्वरोमिके न तिर्यगवगते इत्यर्थः दंष्ट्रिके-उत्तरोष्ठरोमाणि, 'ओष्ठौ' दशनच्छदौ | उष्ट्रस्येव लम्बौ-प्रलम्बमानौ, पाठान्तरेण ' उट्ठा से घोडगस्स जहा दोऽवि लम्बमाणा' तथा फाला-लोहमयकुशाः तत्सदृशा दर्घित्वात् 'से' तस्य ‘दन्ता ' दशनाः, जिह्वा यथा शूर्पकर्त्तरमेव, नान्यथाकारा, विकृतेत्यादि तदेव, पाठान्तरे 'हिड्न्लुयधाउकन्दरविलं व तस्स वयणं ' इति दृश्यते, तत्र हिङ्गुलुको-वर्णद्रव्यं तद्रूपो धातुर्यत्र तत् तथाविधं यत्कन्दरविलं-गुहालक्षणं रन्ध्र तदिव तस्य वदनं, 'हलकुद्दालं' हलस्योपरितुनो भागः तत्संस्थिते तदाकारे अतिवक्रदीर्घ 'से' तस्य ‘हणुय ' त्ति दंष्ट्राविशेषौ, 'गल्लकडिल्लं च तस्स' त्ति गल्ल एव-कपोल एव कडिल्लं-मण्डकादिपचनभाजनं गल्लकडिल्लं, चः समुच्चये, 'तस्य' पिशाचरूपस्य 'खड्ड' त्ति गर्ताकारं, निम्नमध्यभागमित्यर्थः, 'फुट्ट' ति विदीर्ण, अनेनैव साधर्म्यण कडिल्लमित्युपमानं कृतं, 'कविलंति वर्णतः 'फरसं' ति स्पर्शतः 'महल्लं' ति महत्, तथा मृदङ्गाकारेण-मर्दलाकृत्या उपमा यस्य स मृदङ्गाकारोपमः 'से' तस्य स्कन्धः-अंघदेशः, 'पुरवरे' ति पुरवरकपाटोपम'से' तस्य वक्षः-उरःस्थलं, विस्तीर्णत्वादिति, तथा 'कोष्ठिका' लोहादिधातुधमनार्थ मृत्तिकामयी कुशूलिका तस्या यत्संस्थानं तेन संस्थितौ तस्य द्वावपि वाह-भुजौ, स्थलावित्यर्थः, तथा 'निसापाहाणे त्ति मुद्दादिदलनशिला तत्संस्थितौ पृथुलत्वस्थूलत्वाभ्यां द्वावपि अग्रहस्तौ-भुजयोरग्रभूतो, करावित्यर्थः, तथा 'निसालोढे' ति शिलापुत्रकः| तत्संस्थानसंस्थिता हस्तयोरगुल्यः, स्थूलत्वदीर्घत्वाभ्या, तथा 'सिप्पिपुडं' ति शुक्तिसम्पुटस्यैकं दलं तसंस्थानसांस्थितास्तस्य 'नक्ख' त्ति नखाः हस्ताङ्गुलिसम्बन्धिनः, वाचनान्तरे तु इदमपरमधीयते-'अडयालगसंठिओ उरो तस्स रोमगुविलो' ति अत्र अडया--
॥२१॥
Jain Education
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110