Book Title: Upasakdashangasutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 57
________________ सा तथा 'अणेगसयवन्दपरिवाराए। अनेकशतप्रमाणानि यानि वृन्दानि तानि वृन्दानि परिवारो यस्य सा तथा, तस्याः धर्म | परिकथयतीति सम्बन्धः,किम्भूतो भगवान् ?-'ओहबले अइब्बले महब्बले' ओघबल:-अव्यवच्छिन्नबलः अतिबल:-अतिक्रान्ताशेष-10 पुरुषामरतिर्यग्बलः, महाबल:-अमितबलः, एतदेव प्रपश्यते-'अपरिमियबलविरियतेयमाहप्पर्कतिजुचे' अपरिमितानि गानिबलादीनि तैर्युक्तो यः स तथा, तत्र बलं-शारीरः प्राणः वीर्य-जीवप्रभवः तेजो-दीतिः माहात्म्यं महानुभावता कान्तिः-काम्यता |'सारयनवमेहथणियमहुरनिग्घोसदुन्दुभिसरे शरत्कालप्रभवाभिनवमेघशब्दवन्मधुरो निर्घोषो यस्य दुन्दुभेरिव च स्वरो यस्य स तथा, 'उरेवित्थडाए' उरसि विस्तृतया उरसो विस्तीर्णत्वात् सरस्वत्येति सम्बन्धः, 'कण्ठे पट्टियाए' गलविवरस्य वर्तुलत्वात् , 'सिरे सङ्किन्लाए' मूर्धनि सङ्कीर्णया, आयामस्य मूर्धा स्खलितत्वात् , 'अगरलाए' व्यक्तवर्णयेत्यर्थः, 'अमम्मणाए' अनवखश्यमानयेत्यर्थः, 'सव्वक्खरसन्निवाइयाए' सर्वाक्षरसंयोगवत्या 'पुण्णरत्ताए' परिपूर्णमधुरया 'सव्वभासाणुगामिणीए' सरस्सईए-भणित्या । 'जोयणनीहारिणा सरेणं योजनातिकामिणा शब्देन, 'अद्धमागहाए भासाए भासइ अरहा धम्म परिकहेइ,' अर्धमागधी भाषा यस्यां 'रसोलशी मागध्या मित्यादिकं मागधभाषालक्षणं परिपूर्ण नास्ति, भाषते सामान्येन भणति, किंविधो भगवान्?-अर्हन्पूजितो पूजोचितः, अरहस्यो वा सर्वज्ञत्वात् , के ? 'धर्म' श्रद्धेयज्ञेयानुष्ठेयवस्तुश्रद्धानज्ञानानुष्ठानरूपं । तथा परिकथयति अशेषविशेषकथनेनेति । तथा 'तेसि सव्वेसिं आरियमणारियाणं अगिलाए धम्ममाइक्खइ' न केवलं ऋषिपर्षदादीनां, ये वन्दनाद्यर्थमागतास्तेषां च सर्वेषामार्याणाम्-आर्यदेशोत्पन्नानामनार्याणां-म्लेच्छानामग्लान्या-अखेदेनेति ॥ 'सावि य णं अद्धमामहा भासा तेसिं आरियमणारियाणं अप्पणो भासाए परिणामेण परिणमइ स्वभाषापरिणामेनेत्यर्थः,धर्मकथामेव दर्शयति-'अत्थि लोए आत्यि अलोए Jain Education International For Personal & Private Use Only diwww.jainelibrary.org

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110