Book Title: Upasakdashangasutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 55
________________ सुराणां-देवानां वा इंद्रः सुरेंद्रः, पूर्वत्र देवेन्द्रत्वेन प्रतिपादितत्वात् , अन्यथा वा पुनरुक्तपरिहारः कार्यः, अरजांसि-निर्मलानि अम्बरम्-आकाशं तद्वदच्छत्वेन यानि तान्यम्बराणि तानि च वस्त्राणि च २ तानि धारयति यः स तथा, आलगितमालम्-आरोपितसग् मुकुटं यस्य स तथा, नवे इव नवे हेनः-सुवर्णस्य सम्बन्धिनी चारुणी-शोभने चित्रे-चित्रवती चञ्चले ये कुण्डले ताभ्यां विलिख्यमानौ गण्डौ-कपोलौ यस्य स तथा,शेष प्रागिवेति, सामाणियसाहस्सीण मिह यावत्करणादिदं दृश्य'तायत्तीसाए वायत्तीसगाणं चउण्हं लोगपालाणं अण्हं अग्गमहिसीणं सपरिवाराणं तिहं परिसाणं सत्तण्हं अणियाणं सत्तण्हं अणियाहिबईणं चउण्हं चउरासीणं आयरक्खदेवसाहस्सीणं ति,तत्र त्रयस्त्रिंशाः-पूज्या महत्तरकल्पाः, चत्वारो लोकपालाः पूर्वादिदिगधिपतयः सोमयमवरुणवैश्रवणाख्याः,अष्टौ अग्रमहिष्यः-प्रधानभार्याः, तत्परिवारः प्रत्येकंपञ्चसहस्राणि, सर्वमीलने चत्वारिंशत्सहस्राणि,तिस्रः परिषदः-अभ्यन्तरा मध्यमा बाह्या च, सप्तानीकानि-पदातिगजाश्वरथवृषभभेदात्पश्च साक्षामिकाणि, गन्धर्वानकिं नाट्यानीकं चेति सप्त, अनीकाधिपतयश्च सप्तवै-प्रधानः पत्तिः प्रधानो गज एवमन्येऽपि, आत्मरक्षा-अङ्गरक्षास्तेषां चतस्रः सहस्राणां चतुरशीत्यः। आख्यातिसामान्यतो भाषते विशेषतः, एतदेव प्रज्ञापयति प्ररूपयतीति पदद्वयन क्रमेणोच्यत इति, 'देवेण वे'त्यादौ यावत्करणादेवं द्रष्टव्यं 'जक्खेण वा रक्खसेण वा किन्नरेण वा किम्पुरिसेण वा महोरगेण वा गन्धब्वेण वा' इति ॥ 'इड्डी' इत्यादि यावत्करणादिदं दृश्यं जुई जसो बलं वीरियं परिसक्कारपरक्कमेति॥'नाई भुज्जो करणयाएन-नैव, आइंतिनिपातो वाक्यालङ्कारे अवधारणे वा, भूयःकरणताया-पुनराचरणे न प्रवर्तिष्ये इति गम्यते ॥ (सू. २३) तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जाव विहरइ, तए णं से कामदेवे समणोवासए इमीसे कहाए । jain Education a For Personal &Private Use Only P l ainelibrary.org

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110