Book Title: Upasakdashangasutram
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
लगत्ति-अट्टालकः प्राकारावयवः सम्भाव्यते, तत्साधर्म्य चोरसःक्षामत्वादिनति, तथा 'हावियपसेवओव्व' ति नापितप्रसेवक | इव नखशोधकक्षुरादिभाजनमिव 'उरास' वक्षास 'लम्बेते' प्रलम्बमानौ तिष्ठतः द्वावपि तस्य 'स्तनको वक्षोजी, तथा 'पोहूं'। जठरं अयःकोष्ठकवत्-लोहकुशूलवद्वत्तं वर्तुलं, तथा पानं-धान्यरससंस्कृतं जलं येन कुविन्दाश्चीवराणि पाययन्ति तस्य कलन्दं-कुण्डं पानकलन्दं तत्सदृशी गम्भीरतया 'से' तस्य नाभिः-जठरमध्यावयवः, वाचनान्तरेऽधीतंभग्गकडी विगयवंकपट्टी असरिसा दोवि तस्स फिसगा' तत्र भग्नकटिविकृतवक्रपृष्ठः फिसको-पुतौ, तथा 'शिक्कक' दध्यादिभाजनानां दोरकमयमाकाशेऽवलम्बन लोकमसिद्धं तत्संस्थानसंस्थितं 'से तस्य नेत्रं-मथिदण्डाकर्षणरज्जुः तद्दीर्घतया तन्नेत्रं शेफ उच्यते, तथा 'किण्णपुडसंठाणसंठियत्ति सुरागोणकरूपतण्डुलकिण्वभूतगोणीपुटद्वयसंस्थानसंस्थिताविति सम्भाव्यते, द्वावपि तस्य वृषणी-पोत्रको, तथा ' जमलकोट्ठिय ' त्ति समतया व्यवस्थापितकुशूलिकाद्वयसंस्थानसंस्थितौ द्वावपि तस्य ऊरू-जङ्के, तथा 'अज्जुणगुट्ठ' वत्ति अर्जुनः तृणविशेषस्तस्य गुढं-स्तम्बस्तद्वत्तस्य जानुनी, अनन्तरोत्तो|पमानस्य साधर्म्य व्यनक्ति-कुटिलकुटिले-अतिक्के विकृतबीभत्सदर्शने, तथा 'जङ्के जानुनोरधोवर्तिन्यो 'कक्खड़ीओ'त्ति कठिने, निमांसे इत्यर्थः, तथा रोमभिरुपचिते, तथा अधरी-पेषणशिला तत्संस्थानसंस्थितौ द्वावपि तस्य पादौ, तथा अधरीलोट:-शिला| पुत्रकः तत्संस्थानसंस्थिताः पादयोरडल्यः, तथा शुक्तिपुटसंस्थिताः 'से' तस्य पादाङ्गुलिनखाः । केशाग्रान्नखाग्रं यावद्वर्णितं पिशाचरूपम् , अधुना सामान्येन तद्वर्णनायाह-'लडहमडहजाणुए' त्ति इह प्रस्तावे लडहशब्देन गन्त्र्याः पश्चाद्भागवति तदुत्तरा-20 गरक्षणार्थं यत्काष्ठं तदुच्यते, तच्च गन्त्र्यां श्लथबन्धनं भवति, एवं च श्लथसन्धिबन्धनत्वाल्लडह इव लडहे मडहे च स्थूलत्वाल्पदीn al
dal Educatio
For Personal & Private Use Only
E
r
.jainelibrary.org

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110