Book Title: Upasakdashangasutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 20
________________ उपासक दशाङ्गे ।९ ॥ हारातिचारेणैव अस्य संगृहीतत्वात्किं भेदोपादानेनेति ?, उच्यते, पूर्वोक्तपृथिव्यादिसचित्तसामान्यापेक्षया ओषधीनां सदाभ्यवहरणी- १ आनन्दायत्वेन प्राधान्यख्यापनार्थ, दृश्यते च सामान्योपादाने सत्यपि प्राधान्यापेक्षया विशेषोपादानमिति ३, 'दुप्पउलिओसहिभक्खणया' ध्ययन दुष्पकाः अग्निना (अर्धस्विन्ना) ओषधयस्तद्भक्षणता, अतिचारता चास्य पक्कबुद्धया भक्षयतः३, 'तुच्छोसहिभक्खणय त्ति तुच्छाः व्रतातिअसारा ओषधयः-अनिष्पन्नमुद्गफलीप्रभृतयः, तद्भक्षणे हि महती विराधना स्वल्पाच तत्कार्य(भूता)तृप्तिरिति विवेकिना चित्ताशिना ता चारोपदेशः अचित्तीकृत्य न भक्षणीया भवन्ति, तत्करणेनापि भक्षणेऽतिचारो भवति, व्रतसापेक्षत्वात्तस्यति ५, इह च पश्चातिचारा इत्युपलक्षणमात्रमेवावसेयं, यतो मधुमद्यमांसरात्रिभोजनादिवतिनामनाभोगातिक्रमादिभिरनेके ते सम्भवन्तीति ॥ 'कम्मओ णमित्यादि, कर्मतो यदुपभोगव्रतं ' खरकर्मादिकं कर्म प्रत्याख्यामि' इत्येवंरूप तत्र श्रमणोपासकेन पञ्चदश कर्मादानानि वर्जनीयानि, 'इङ्गालकम्मे' त्ति अङ्गारकरणपूर्वकस्तद्विक्रयः, एवं यदन्यदपि वह्निसमारम्भपूर्वकं जीवनमिष्टकाभाण्डकादिपाकरूपं तदङ्गारकर्मेति ग्राह्यं, समानस्वभावत्वात् , अतिचारता चास्य कृतैतत्पत्याख्यानस्यानाभोगादिना अत्रैव वर्तनादिति, एवं सर्वत्र भावना कार्या १, नवरं । 'वनकर्म' वनस्पतिच्छेदनपूर्वकं तद्विक्रयजीवनं २, 'शकटकर्म' शकटानां घटनविक्रयवाहनरूपं ३, 'भाटककर्म' मूल्यार्थं गन्त्र्यादिभिः परकीयभाण्डवहनं ४, ‘स्फोटकर्म' कुदालहलादिभिर्भूमिदारणेन जीवनं ५, 'दन्तवाणिज्य' हस्तिदन्तशङ्खपूतिकेशादीनां । तत्कर्मकारिभ्यः क्रयेण तद्विक्रयपूर्वकं जीवनं ६, लाक्षावाणिज्यं सञ्जातजीवद्रव्यान्तरविक्रयोपलक्षणं ७, 'रसवाणिज्य' सुरादिविक्रयः ८, विषवाणिज्यं जीवघातप्रयोजनशस्त्रादिविक्रयोपलक्षणं ९, 'केशवाणिज्यं केशवतां दासगवोष्ट्रहस्त्यादिकानां विक्रयरूपं १०, 'यन्त्रपीडनकर्म' यन्त्रेण तिलेक्षप्रभृतीनां यत्पीडनरूपं कर्म तत् ११, तथा 'निर्लाञ्छनकर्म' वर्धितककरणं १२, Jain Education Lonal For Personal & Private Use Only Malaw.jainelibrary.org

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110