Book Title: Upasakdashangasutram
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
कार्या । अथ सर्वविरतावेवातिचारा भवन्ति, देशविरतौ तु भङ्गा एव, यदाह-सव्वेऽवि य अइयारा सञ्जलणाणं तु उदयओ हुन्ति। मूलच्छेज्ज पुण होइ बारसण्हं कसायाणं ॥१॥" अत्रोच्यते, इयं हि गाथा सर्वविरतावेवातिचारभङ्गोपदर्शनार्था, न देशविरत्यादिभङ्गदर्शनार्था, तथैव वृत्तौ व्याख्यातत्वात् , तथा सज्वलनोदयविशेषे सर्वविरतिविशेपस्यातिचारा एव भवन्ति, न मूलच्छेदः, प्रत्याख्यानावरणादीनां तूदये पश्चानुपूर्व्या सर्वविरत्यादीनां मूलतः छेदो भवतीत्येवंभूतव्याख्यानान्तरेऽपि न देशविरत्यादावतिचाराभावः। सिध्यति, यतो यथा संयतस्य चतुर्थानामुदये यथाख्यातचारित्रं भ्रश्यति इतरचारित्रं सम्यक्त्वं च सातिचारमुदयविशेषानिरतिचारंच | भवतीति एवं तृतीयोदये सरागचरणंभ्रश्यति देशविरतस्य तु देशविरतिसम्यक्त्वे सातिचारे निरतिचारेच प्रत्येकं तथैव स्याता,द्वितीयोदये देशविरतिभ्रंश्यति, सम्यक्त्वं तु तथैव द्विधा स्यात्, प्रथमोदये तु सम्यक्त्वं भ्रश्यतीति, एवं चैतत् , कथमन्यथा सम्यक्त्वातिचारेषु दैशिकेषु प्रायश्चित्तं तप एव निरूपितं, सार्विकेषु तु मूलमिति, अथानन्तानुबन्ध्यादयो द्वादश कषायाः सर्वघातिनः सज्वलनास्तु देशघातिन इति, ततश्च सर्वघातिनामुदये मूलमेव, देशघातिनां त्वतिचार इति,सत्यं,किन्तु यदेतत्सर्वघातित्वं द्वादशानां कषायाणां तत्सर्वविरत्यपेक्षमव शतकचूर्णिकारेण व्याख्यातं, न तु सम्यक्त्वाद्यपेक्षमिति, तथा हि तद्वाक्यं-"भगवपणीयं पञ्चमहन्वयमइयं अद्वारससीलङ्गसहस्सकलियं चारित्तं घाएन्ति त्ति सव्वघाइणो"त्ति। किञ्च-प्रागुपदर्शितायाः 'जारिसओ' इत्यादिगाथायाः सामर्थ्यादतिचारभङ्गो देशविरतिसम्यक्त्वयोः प्रतिपत्तव्याविति 'अपच्छिमे' त्यादि पश्चिमैवापश्चिमा मरणं-प्राणत्यागलक्षणं तदेवान्तो मरणान्तः तत्र भवा
१ सर्वेऽपि चातिचाराः संज्वलनानामुदयतो भवन्ति । मूलच्छेद्यं पुनर्भवति द्वादशानां कषायाणाम् ॥१॥ २ भगवत्प्रणीतं पश्चमहाव्रतमयं अष्टादशशीलागसहस्रकलितं चारित्रं घातयन्तीति सर्वघातिन इति ।
Jain Education
For Personal & Private Use Only
Postainelibrary.org

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110