Book Title: Upasakdashangasutram
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
उपासकदशाङ्गे
कर्थिकैः तानेव 'आलपितुं वा सकृत्सम्भाषितुं 'संलपितुं वा' पुनः पुनः संलापं कर्तुं, यतस्ते तप्ततरायोगोलकस्याः खल्वासना- १ आनन्दा
दिक्रियायां नियुक्ता भवन्ति, नत्प्रत्ययश्च कर्मबन्धः स्यात् , तथाऽऽलापादेः सकाशात्परिचयेन तस्यैव तत्परिजनम्य वा मिथ्यात्व- ध्ययनं प्राप्तिरिति, प्रथमालप्तेन त्वसम्भ्रमं लोकापवादभयात् “कीदृशस्त्वम्" इत्यादि वाच्यमिति, तथा तेभ्यः । अन्ययूथिकेभ्योऽशनादि । दातुं वा सकृत् , अनुप्रदातुं वा पुनः पुनरित्यर्थः, अयं च निषेधो धर्मबुद्धयैव, करुणया तु दद्यादपि, किं सर्वथा न कल्पत इत्याह-'नन्नत्थ रायाभिओगणं' ति 'न' इति न कल्पत इति योऽयं निषेधः सोऽन्यत्र राजाभियोगात् , तृतीयायाः पञ्चम्यर्थ-3 त्वाद् राजाभियोगं वर्जयित्वेत्यर्थः, राजाभियोगस्तु-राजपरतन्त्रता,गणः-समुदायस्तदभियोगो-पारवश्यता गणाभियोगस्तस्मात् , बलामियोगो नाम-राजगणव्यतिरिक्तस्य बलवतः पारतन्त्र्यं, देवताभियोगो-देवपरतन्त्रता, गुरुनिग्रहो-मातापितृपारवश्यं | गुरूणां वा-चैत्यसाधूनां निग्रहः-प्रत्यनीककृतोपद्रवो गुरुनिग्रहः तत्रोपस्थिते तद्रक्षार्थमन्ययूथिकादिभ्यो दददपि नातिक्रामनि सम्यक्त्वमिति, 'वित्तिकन्तारेणं ति वृत्तिः-जीविका तस्याः कान्तारम्-अरण्यं तदिव कान्तारं क्षेत्र कालो वा वृत्तिकान्तारं, निवाहाभाव इत्यर्थः, तस्मादन्यत्र निषेधो दानप्रणामादेरिति प्रकृतमिति, 'पडिग्गहं' ति पात्रं 'पीढं' ति पट्टादिकं 'फलगं' ति अवष्टम्भादिकं फलक भसज्ज ति पथ्यं 'अढाई ति उत्तरभूतानथानाददाति ॥ (मू०८)
तए णं सा सिवानन्दा भारिया आणन्देणं समणोवामएणं एवं वुत्ता समाणा हट्ठतुट्ठा कोडुम्बियपुरिसे सदावेइ ना एवं वयासी-खिप्पामेव लहकरण जाव पज्जवासइ. तए णं समणे भगवं महावीरे सिवा जाव धम्म कहेइ. तए णं सा सिवानन्दा समणस्म भगवओ महावीरस्स अन्तिए धम्म सोच्चा निसग्म हद जाव
- inो अपनावीर मिवानन्दाएतीमयमहरा ॥१३॥
Jain Education
l onal
For Personal & Private Use Only
mm.jainelibrary.org

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110