Book Title: Upasakdashangasutram
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
उपासकदशाङ्गे
॥१५॥
सल्लविरहियसन्मसणजुओ उ जो जन्तू । सेसगुणविप्पमुक्को एसा खलु होइ पढमा उ ॥ १॥ सम्यग्दर्शनप्रतिपत्तिश्च तस्य पूर्व- १ आनन्दामप्यासीत् , केवलमिह शङ्कादिदोषराजाभियोगाद्यपवादवर्जितत्वेन तथाविधसम्यग्दर्शनाचारविशेषपालनाभ्युपगमेन च प्रतिमात्वं ध्ययन सम्भाव्यते, कथमन्यथाऽसावेकमासं प्रथमायाः प्रतिमायाः पालनेन द्वौ मासौ द्वितीयायाः पालनेन एवं यावदेकादशमासानेकादश्याः पालनेन पञ्च सार्धानि वर्षाणि पूरितवानित्यर्थतो वक्ष्यतीति, न चायमर्थो दशाश्रुतस्कन्धादावुपलभ्यते, श्रद्धामात्ररूपा-3 यास्तत्र तस्याः प्रतिपादनात , 'अहासुत्तति सूत्रानतिक्रमेण 'यथाकल्पं प्रतिमाचारानतिक्रमेण 'यथामार्ग' क्षायोपशमिकभावानतिक्रमेण 'अहातचंति यथातत्त्वं दर्शनप्रतिमेतिशब्दस्यान्वर्थानतिक्रमेण 'फासेइत्ति स्पृशति प्रतिपत्तिकालं विधिना प्रतिपत्तेः । पालेइत्ति सततोपयोगप्रतिजागरणेन रक्षति 'सोहेइत्ति शोभयति गुरुपूजापुरस्सरपारणकरणेन शोधयति वा निरतिचारतया तीरेइ'त्ति पूर्णेऽपि कालावधावनुबन्धात्यागात् 'कीर्तयति' तत्समाप्तौ इदमिदं चेहादिमध्यावसानेषु कर्त्तव्यं तच्च मया कृतमिति कीर्त-15 नात् 'आराधयति' एभिरेव प्रकारैः सम्पूर्णनिष्ठां नयतीति ॥ 'दोच्चंति द्वितीयां व्रतप्रतिमाम् । इदं चास्याः स्वरूपम्-'दसणपडिमाजुत्तो पालेन्तोऽणुवए निरइयारे । अणुकम्पाइगुणजुओ जीवो इह होइ वयपडिमा ॥१॥ तच्चंति तृतीयां मामायिकप्रतिमाम् | तत्स्वरूपमिदम्-'वरदसणवयजुत्तो सामइयं कुणइ जो तिसञ्झासु । उक्कोसेण तिमासं एसा सामाइयप्पडिमा ॥१॥' 'चउत्थंति चतुर्थी पोषधप्रतिमाम्, एवंरूपाम्-'पुबोदियपडिमजुओ पालइ जो पोसहं तु सम्पुण्णं । अटुमिचउद्दसाइसु चउरो मासे चउत्थी सा ॥१॥
॥१५॥ । १ दर्शनप्रतिमायुक्तः पालयन अणुव्रतानि निरतिचाराणि । अनुकम्पादिगुणयुतो जीव इह भवति व्रतप्रतिमा ॥१॥
२ वरदर्शनव्रतयुक्तः सामायिक करोति यस्तु त्रिसंध्यासु । उत्कृष्टेन बीन मासान एषा सामायिकप्रतिमा ॥१॥ ३ पूर्वोदितप्रतिमायुतः पालयति यः पोषधं तु संपूर्णम् । अष्टमीचतुर्दश्यादिषु चतुरो मासान् चतुर्येषा ॥१॥
dain Education
a
l
For Personal & Private Use Only
E
mainelibrary.org

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110