Book Title: Upasakdashangasutram
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
उपासकदशाओं
ध्ययनं व्रतातिचारोपदेशः
॥१०॥
जनमस्यानुष्ठानस्यति सामायिकं तस्य-सावद्ययोगनिषेध रूपस्य निरवद्ययोगप्रतिषेधस्वभावस्य च 'मणदुप्पणिहाणे' ति मनसो दुष्टं प्रणिधानं प्रयोगो मनोदुष्पणिधानं कृतसामायिकस्य गृहेतिकर्तव्यतायां सुकृतदुष्कृतपरिचिन्तनमिति भावः १, 'वयदुप्पणि- हाणे' ति कृतसामायिकस्य निष्ठरसावधवाक्प्रयोगः २, 'कायदुप्पणिहाणे' ति कृतसामायिकस्याप्रत्युपेक्षितादिभूतलादौ करचरणादीनां देहावयवानामनिभृतस्थापन मिति ३, 'सामाइयस्स सइअकरणय' त्ति सामायिकस्य सम्बन्धिनी या स्मृतिः-अस्या वेलायां मया सामायिक कर्तव्यं, तथा कृतं तन्न वा इत्येवंरूपं स्मरणं, तस्याः प्रबलप्रमादतयाऽकरणं स्मृत्यकरणं ४, 'अणवद्वियस्स करणय' ति अनवस्थितस्य अल्पकालीनस्यानियतस्य वा सामायिकस्य करणमनवस्थितकरणम् , अल्पकालकरणानन्तरमेव त्यजति यथाकथञ्चिद्वा तत्करोतीति भावः ५, इह चाद्यत्रयस्यानाभोगादिनातिचारत्वम् इतरद्वयस्य तु प्रमादबहुलतयेति ॥ 'देसावगासियस्स' त्ति दिग्वतगृहीतदिपरिमाणस्यैकदेशो देशस्तस्मिन्नवकाशो-गमनादिचेष्टास्थानं देशावकाशस्तेन निर्वृत्तं देशावकाशिक-पूर्वगृहीतदिग्वतसाङ्केपरूपं सर्वव्रतसङ्केएरूपं चेति, 'आणवणप्पओगे' त्ति इह विशिष्टावधिके भूदेशाभिग्रहे परतः स्वयंगमनायोगाद्यदन्यः सचित्तादिद्रव्यानयने प्रयुज्यते सन्देशकप्रदानादिना त्वयेदमानेयम् इत्यानयनप्रयोगः १, 'पेसवणप्पओगे' बलाद्विनियोज्यः प्रेष्यस्तस्य प्रयोगो, यथाभिगृहीतप्रविचारदेशव्यतिक्रमभयात् "त्वयाऽवश्यमेव तत्र गत्वा मम गवाद्यानेयं इदं वा तत्र कर्तव्यम्" इत्येवंभूतः प्रेष्यप्रयोगः २, 'सद्दाणुवाए' त्ति स्वगृहत्तिप्राकाराद्यवच्छिन्नभूप्रदेशाभिग्रहे बहिः प्रयोजनोत्पत्तौ तत्र स्वयंगमनायोगानुत्तिप्राकारादिप्रत्यासन्नवर्तिनो बुद्धिपूर्वकं तमभ्युत्काशितादिशब्दकरणेन समवसितकान् बोधयतः शब्दानुपातः, शब्दस्यानुपातनम् उच्चारणं तादृग्येन परकीयश्रवणविवरमनुपतत्यसाविति ३, 'रूवाणुवाए' त्ति अभिगृहीतदेशाद्वहिः प्रयोजनभावे शब्द
Jain Educatidinemational
For Personal & Private Use Only
SAMw.jainelibrary.org

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110