Book Title: Upasakdashangasutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 19
________________ भावाद् उचितावसरे तु प्रतिपत्स्यत इति भगवतस्तदतिचारवर्जनोपदेशनमुपपन्नं, यचोक्तं 'द्वादशविधं गृहिधर्म प्रतिपत्स्ये' यच्च वक्ष्यति-'द्वादशविधं श्रावकधर्म प्रतिपद्यते' तद् यथाकालं तत्करणाभ्युपगमनादनवद्यमवसेयमिति । तत्र 'उडदिसिपमाणाइक्कमे' त्ति, कचिदेवं पाठः, कचित्तु 'उडदिसाइक्कमेत्ति, एते चोर्ध्वदिगाद्यतिक्रमा अनाभोगादिनाऽतिचारतयाऽवसेयाः१-३, 'खेत्तव प्रति एकतो योजनशतपरिमाणमभिगृहीतमन्यतो दश योजनान्यभिगृहीतानि, ततश्च यस्यां दिशि दश योजनानि तस्यां दिशि समुत्पन्ने । कार्ये योजनशतमध्यादपनीयान्यानि दश योजनानि तत्रैव स्वबुद्धया प्रक्षिपति, संवर्धयत्येकत इत्यर्थः, अयं चातिचारो व्रतसापेक्षत्वादवसेयः ४, ‘सइअन्तरद्ध' त्ति स्मृत्यन्तर्घा-स्मृत्यन्तर्धानं स्मृतिभ्रंशः 'किं मया व्रतं गृहीतं शतमर्यादया। पञ्चाशन्मर्यादया वा?' इत्येवमस्मरणे योजनशतमर्यादायामपि पञ्चाशतमतिकामतोऽयमतिचारोऽवसेय इति ५ । 'भोयणओ कम्मओ य' त्ति भोजनतो-भोजनमाश्रित्य बाह्याभ्यन्तरभोजनीयवस्तून्यपेक्ष्येत्यर्थः, 'कर्मतः, क्रियां जीवनदृत्तिं बाह्याभ्यन्तरभोजनीयवस्तुप्राप्तिनिमित्तभूतामाश्रित्येत्यर्थः, 'सचित्ताहारे' ति सचेतनाहारः, पृथिव्यष्कायवनस्पतिकायजीवशरीरिणां सचेतनानामभ्यवहरणमित्यर्थः, अयं चातिचारः कृतसचित्ताहारप्रत्याख्यानस्य कृततत्परिमाणस्य वाऽनाभोगादिना प्रत्याख्यातं सचेतनं भक्षयतस्तद्वा प्रतीत्यातिक्रमादौ वर्तमानस्य १, 'सचित्तपडिबद्धाहारे' त्ति सचित्ते वृक्षादौ प्रतिबद्धस्य गुन्दादेरभ्यवहरणम् , अथवा सचित्ते-अस्थिके प्रतिबद्धं यत्पकमचेतनं खजूंरफलादि तस्य सास्थिकस्य कटाहमचेतनं भक्षयिष्यामीतरत्परिहरिष्यामि इति भावनया मुखे क्षेपणमिति, एतस्य चातिचारत्वं व्रतसापेक्षत्वादिति २, 'अप्पउलिओसहिभक्खणय' त्ति अपकायाः-अग्निनाऽसंस्कृतायाः ओषधेः- शाल्यादिकाया भक्षणता-भोजनमित्यर्थः, अस्याप्यतिचारताऽनाभोगादिनैव, ननु सचित्ता SANTONARCOACOCONOCOLATE NERAL Jain Education Memonal For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110