________________
भावाद् उचितावसरे तु प्रतिपत्स्यत इति भगवतस्तदतिचारवर्जनोपदेशनमुपपन्नं, यचोक्तं 'द्वादशविधं गृहिधर्म प्रतिपत्स्ये' यच्च वक्ष्यति-'द्वादशविधं श्रावकधर्म प्रतिपद्यते' तद् यथाकालं तत्करणाभ्युपगमनादनवद्यमवसेयमिति । तत्र 'उडदिसिपमाणाइक्कमे'
त्ति, कचिदेवं पाठः, कचित्तु 'उडदिसाइक्कमेत्ति, एते चोर्ध्वदिगाद्यतिक्रमा अनाभोगादिनाऽतिचारतयाऽवसेयाः१-३, 'खेत्तव प्रति एकतो योजनशतपरिमाणमभिगृहीतमन्यतो दश योजनान्यभिगृहीतानि, ततश्च यस्यां दिशि दश योजनानि तस्यां दिशि समुत्पन्ने ।
कार्ये योजनशतमध्यादपनीयान्यानि दश योजनानि तत्रैव स्वबुद्धया प्रक्षिपति, संवर्धयत्येकत इत्यर्थः, अयं चातिचारो व्रतसापेक्षत्वादवसेयः ४, ‘सइअन्तरद्ध' त्ति स्मृत्यन्तर्घा-स्मृत्यन्तर्धानं स्मृतिभ्रंशः 'किं मया व्रतं गृहीतं शतमर्यादया। पञ्चाशन्मर्यादया वा?' इत्येवमस्मरणे योजनशतमर्यादायामपि पञ्चाशतमतिकामतोऽयमतिचारोऽवसेय इति ५ । 'भोयणओ कम्मओ य' त्ति भोजनतो-भोजनमाश्रित्य बाह्याभ्यन्तरभोजनीयवस्तून्यपेक्ष्येत्यर्थः, 'कर्मतः, क्रियां जीवनदृत्तिं बाह्याभ्यन्तरभोजनीयवस्तुप्राप्तिनिमित्तभूतामाश्रित्येत्यर्थः, 'सचित्ताहारे' ति सचेतनाहारः, पृथिव्यष्कायवनस्पतिकायजीवशरीरिणां सचेतनानामभ्यवहरणमित्यर्थः, अयं चातिचारः कृतसचित्ताहारप्रत्याख्यानस्य कृततत्परिमाणस्य वाऽनाभोगादिना प्रत्याख्यातं सचेतनं भक्षयतस्तद्वा प्रतीत्यातिक्रमादौ वर्तमानस्य १, 'सचित्तपडिबद्धाहारे' त्ति सचित्ते वृक्षादौ प्रतिबद्धस्य गुन्दादेरभ्यवहरणम् , अथवा सचित्ते-अस्थिके प्रतिबद्धं यत्पकमचेतनं खजूंरफलादि तस्य सास्थिकस्य कटाहमचेतनं भक्षयिष्यामीतरत्परिहरिष्यामि इति भावनया मुखे क्षेपणमिति, एतस्य चातिचारत्वं व्रतसापेक्षत्वादिति २, 'अप्पउलिओसहिभक्खणय' त्ति अपकायाः-अग्निनाऽसंस्कृतायाः ओषधेः- शाल्यादिकाया भक्षणता-भोजनमित्यर्थः, अस्याप्यतिचारताऽनाभोगादिनैव, ननु सचित्ता
SANTONARCOACOCONOCOLATE
NERAL
Jain Education Memonal
For Personal & Private Use Only
www.jainelibrary.org