Book Title: Upasakdashangasutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 18
________________ उपासकदशाङ्गे त्वमनाभोगादिनाऽतिक्रमादिना वा, अथवा एकक्षेत्रादिपरिमाणकर्तुस्तदन्यक्षेत्रस्य वृत्तिप्रभृतिसीमापनयनेन पूर्वक्षेत्रे योजना क्षेत्रप्रमाणातिक्रमोऽतिचार एव, व्रतसापेक्षत्वात्तस्येति १, 'हिरण्णसुवण्णपमाणाइक्कमे' त्ति प्राग्वत् , अथवा राजादेः सकाशाल्लब्धं हिरण्याकायभिग्रहावधिं यावदन्यस्मै प्रयच्छतः 'पुनरवधिपूतौ ग्रहीष्यामि' इत्यध्यवसायवतोऽयमतिचारस्तथैवेति २, 'धणधन्नपमाणाइक्कमे त्ति अनाभोगादेः अथवा लभ्यमानं धनाद्यभिग्रहावधिं यावत्परगृह एव बन्धनबद्धं कृत्वा धारयतोऽतिचारोऽयमिति ३, 'दुपयचउप्प यपमाणाइक्कमे त्ति अयमपि तथैव, अथवा गोवडवादिचतुष्पदयोषित्सु यथा अभिग्रहकालावधिपूतौ प्रमाणाधिकवत्सादिचतुष्पदोत्पशातिर्भवति तथा षण्ढादिकं प्रक्षिपतोऽतिचारोऽयं, तेन हि जातमेव वत्सादिकमपेक्ष्य प्रमाणातिक्रमस्य परिदृतत्वाद्गर्भगतापेक्षया तस्य सम्प नत्वादिति ४, 'कुवियपमाणाइक्कमे त्ति कुप्यं गृहोपस्करःस्थालकचोलकादि, अयं चातिचारोऽनाभोगादिना, अथवा पश्चैव स्थालानि परिग्रहीतव्यानीत्याद्यभिग्रहवतः कस्याप्यधिकतराणां तेषां सम्पत्तौ प्रत्येकं यादिमेलनेन पूर्वसन्यावस्थापनेनातिचारोऽय १ आनन्दाध्ययन व्रतातिचारोपदेशः ॥८॥ A C3CARINA मिति ५, आह च-"खेत्ताइहिरण्णाईधणाइदुपयाइकुप्पमाणकमे । जोयणपयाणबन्धणकारणभावेहि नो कुज्जा ॥१॥" दिग्वतं शिक्षाव्रतानि च यद्यपि पूर्व नोक्तानि तथापि तत्र तानि द्रष्टव्यानि, अतिचारभणनस्यान्यथा निरवकाशता स्यादिहेति, कथमन्यथा प्रागुक्त-"दवालसविहं सावगधम्म पडिवज्जिस्सामि" इति, कथं वा वक्ष्यति-'दुवालसविहं सावगधम्म पडिवज्जइ' इति, अथवा सामायिकादीनामित्वरकालीनत्वेन प्रतिनियतकालकरणीयत्वान्न तदैव तान्यसौ प्रतिपन्नवान् दिवतं च विरतेर (१) क्षेत्रादिहिरण्यादिधनादिद्विपदादिक्कुप्यमानक्रमान् । योजनप्रदानबन्धनकारणभाषैः नो कुर्यात् ॥१॥ . ॥८ ॥ BL Jain Education International For Personal & Private Use Only Ww.jalnelibrary.org

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110