Book Title: Upasakdashangasutram
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
इत्यभिप्रायेण व्रतसापेक्षत्वात् ४, 'तप्पडिरूवगववहारे' ति तेन-अधिकृतेन प्रतिरूपकं-सदृशं तत्पतिरूपकं तस्य विविधमवहरणं व्यवहारः-प्रक्षेपस्तत्पतिरूपकव्यवहारः, यद्यत्र घटते ब्रीहिघृतादिषु पलञ्जीवसादि तस्य प्रक्षेप इतियावत् , तत्मतिरूपकेन वा वसादिना व्यवहरणं तत्पतिरूपकव्यवहारः, अतिचारता चास्य पूर्ववत् ५ । 'सदारसन्तोसीए' त्ति स्वदारसन्तुष्टेरित्यर्थः, 'इत्तरियपरिग्गहियागमणे' त्ति इत्वरकालपरिगृहीता कालशब्दलोपादित्वरपरिगृहीता-भाटीपदानेन कियन्तमपि कालं दिवसमासादिकं स्ववशीकृतेत्यर्थः, तस्यां गमनं-मैथुनासेवनमित्वरपरिगृहीतागमनं, अतिचारता चास्यातिक्रमादिभिः १, 'अपरिग्गहियागमणे' त्ति अपरिगृहीता नाम वेश्या अन्यसत्कपरिगृहीतभाटिका कुलाङ्गना वा अनाथेति, अस्याप्यतिचारताऽतिक्रमादिभिरेव २, 'अणङ्गकीड' ति अनङ्गानिमैथुनकर्मापेक्षया कुचकुक्षोरुवदनादीनि तेषु क्रीडनमनङ्गक्रीडा, अतिचारता चास्य स्वदारेभ्योऽन्यत्र मैथुनपरिहारेणानुरागादालिङ्गनादि विदधतो व्रतमालिन्यादिति ३, 'परविवाहकरणे' त्ति परेषाम्-आत्मन आत्मीयापत्येभ्यश्च व्यतिरिक्तानां विवाहकरणं परविवाहकरणं, अयमभिप्रायः-स्वदारसन्तोषिणो हि न युक्तः परेषां विवाहादिकरणेन मैथुननियोगोऽनर्थको विशिष्टविरतियुक्तत्वादित्येवमनाकलयतः परार्थकरणोद्यततयाऽतिचारोऽयमिति४, कामभोगतिव्वाभिलासे'त्ति कामौ-शब्दरूपे भोगाः-गन्धरसस्पर्शास्तेषु तीव्राभिलाष:-अत्यन्तं तदध्यवसायितं कामभोगतीवाभिलाषः, अयमभिप्रायः स्वदारसन्तोषी हि विशिष्टविरतिमान् , तेन च तावत्येव मैथुनासेवा कर्तुमुचिता यावत्या वेदजनिता बाधोपशाम्यति, यस्तु वाजिकरणादिभिः कामशास्त्रविहितप्रयोगैश्च तामधिकामुत्पाद्य सततं सुरतसुखमिच्छति स |मैथुनविरतिव्रतं परमार्थतो मलिनयति, को हि नाम सकर्णकः पामामुत्पाद्याग्निसेवाजनितं सुखं वाञ्छेदिति अतिचारत्वं कामभोगतीव्राभिलापस्येति ५। 'खेत्तवत्थुपमाणाइक्कमे त्ति क्षेत्रवस्तुनः प्रमाणातिक्रमः, प्रत्याख्यानकालगृहीतमानोल्लङ्घनमित्यर्थः,एतस्य चातिचार
Jain Educatie 11.
onal
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110