Book Title: Sutra Vyakhayan Vidhi Shatakam
Author(s): Dharmsagar Gani, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi

View full book text
Previous | Next

Page 18
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शतकम् एतच्च समनुज्ञासूत्रस्य व्याख्यायां भाष्यकारवचनं । एवं सुशिष्यस्यापि कोलतस्त्रिवर्षादिपर्यायप्राप्तस्याचारांगादेर्वाचना दातव्या । यदागमः -- तिवरिसपरिआगस्स उ, आयारपकप्प णामज्झयणं । चउवरिसपरिआगस्स उ सूअगडं णाम अंगंति ॥१॥ इत्यादि व्यवहारसूत्रे । एवं चानुज्ञातसूत्रार्थस्य साधोधर्मकथायामप्यधिकारो, न पुनर्गृहस्थादेः । यदागमः -- 'चत्तारि पुरिसजाया पं० तं०-आघवतित्ता णाममेगे जो उछजीविसंपन्ने' इत्यादिचतुर्भङ्गीवृत्तौ-'आख्यायकः सूत्रस्य, न चोञ्छजीविकासम्पन्न:-अनेषणानिरत इत्यर्थः, स चापद्गतः संविग्नः संविज्ञपाक्षिको वेत्यादि यावत् द्वितीयभंगे यथाच्छन्दः, तृतीये साधुः, चतुर्थे गृहस्थादिः इति । एवं च संविज्ञपाक्षिकसाधुव्यतिरिक्तानां धर्मकथायामनधिकार एव भणितः । तेन तेषां समीपे धर्मकथाश्रवणं महापापमेव । अत एव गोष्ठामाहिलसमीपे धर्मकथाश्रवणं श्रीसंघेन प्रतिषिद्धं । एतेन एतेऽपि धर्म मेवोपदिशन्ति, तत्श्रवणे को दोष ? इति भ्रान्तिरपि निरस्ता, जिनाज्ञामुल्लङध प्रवृत्तेमहापापरूपत्वात् । किञ्च-सर्वेषामपि वादिनामुपदेशो निजनिजमार्गप्रवृत्तिहेतुरेव भवति, तन्मार्गप्रवर्तनं चोन्मार्गप्रवृत्तिरूपत्वेन महानर्थरूपमेवेति पर्यालोच्यं । यदि च परं कदाचित् श्रावकोऽपि निजकुटुम्बस्य पुरस्ताद्धम कथयति, तदा गुरव इत्थमादिशन्तीति गुरूपदेश'पारतनयेणैव जिनाज्ञा, न पुनः साधुवत्सभाप्रबन्धेनेति श्रावक For Private And Personal Use Only

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122