Book Title: Sutra Vyakhayan Vidhi Shatakam
Author(s): Dharmsagar Gani, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi

View full book text
Previous | Next

Page 99
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्याख्यान विधिगच्छन्ति । यदाह-'सिझति जत्तिआ किरे'त्यादि प्राक् प्रदर्शित-- मेव । एवं च व्यवहारराशितः सिद्धा अनन्तगुणा एवोक्ताः । तत्र यदि बादरनिगोदजीवानां व्यावहारिकत्वं भवति, तर्हि बादरनिगोदजीवेभ्यः सिद्धा अनन्तगुणा एव सम्पद्य रन् । सन्ति च सिद्धेभ्यो बादरनिगोदजीवा अनन्तगुणाः, तेभ्यः सूक्ष्मजीवा असंख्येयगुणाः। यदागमः --'एएसि णं भंते! जीवाणं सुहुमाणं१ बायराणंर णो सुहुमाणं णो बायराणं३ कयरे २ हितो अप्पा वा बहुया वा ४ । गो० सव्यथोवा जीवा णो सुहुमा णो बायरा, बायरा अणंतगुणा, सुहुमा असंखेजगुणा' इति प्रज्ञा ० पद १८ । वृत्तिर्यथा-'एएसि णं भंते ! जीवाणं सुहुमाण' मित्यादि । सर्वस्तोका जीवा ‘णो सुहुमा णो बायरा' सिद्धा इत्यर्थः । तेषां सूक्ष्मजीवराशेर्बादरजीवराशेश्च अनन्ततमभागकल्पत्वात् । तेभ्यो बादरा अनन्तगुणाः, बादरनिगोदजीवानां सिद्धेभ्यो अनन्तगुणत्वात् । तेभ्यश्च सूक्ष्मा असंख्येयगुणाः, बादरनिगोदेभ्यः सूक्ष्मनिगोदानामसंख्येयगुणत्वादिति। एवं चाऽऽगमबाधा स्फुरैद । तेन 'ग्रन्थस्य ग्रन्थान्तरं टीके तिवचनात् सर्वज्ञमूलकाऽऽगमाऽनाबाधयैव व्याख्यानं युक्तमिति । तत्र सूक्ष्मपृथिव्यादीनां निगोदानां चाऽनादित्वमप्राप्तव्यवहारराश्यपेक्षया मन्तव्यम् । प्राप्तव्यवहारराशीनां तु जीवानां सूक्ष्मपृथिव्यादिनिगोदपर्यन्तानां सर्वेषामपि सादित्वमेव स्यात् । यद्यपि प्रत्येकशरीरिणः सूक्ष्मपृथिव्यादयोऽव्यवहारिण इति क्वाप्यागमे साक्षान्नोक्तं, तथापि अनन्तरोक्ताऽऽगमवाधानुरोधव्यवहारित्ववचनेऽपि न For Private And Personal Use Only

Loading...

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122