Book Title: Sutra Vyakhayan Vidhi Shatakam
Author(s): Dharmsagar Gani, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शतकम्। जीवाश्च असांव्यवहारिका,अन्यथा प्रत्येकशरीरिणो व्यावहारिका इत्येवोक्तमभविष्यत् । यच्च 'केवलनिगोदेभ्य उद्धत्य पृथिवीकायादिभवेषु वर्तन्ते' इत्यादि भणितं, तत् सूक्ष्मपृथिव्यादिजीवानामसङ्खयेयत्वेनाल्पत्वात् अवश्यभाविव्यावहारिकत्वाद्वा अविवक्षणादिति सम्भाव्यते । सम्यग निश्चयस्तु बहुश्रुतगम्य इति । एवं चाइसांव्यवहारिका जीवाः सूक्ष्मपृथिव्यादिषु निगोदेषु च सर्वकालं गत्यागतीः कुर्वन्तीति सम्पन्नं । एतदर्थसंवादिका च प्रवचनसारोद्धारवृत्तिरपि । तथाहि'असंखोसप्पिणिसप्पिणीओ, एगिदिआण य चउण्हं । ता चेव अणंताओ, वणस्सइए अ बोद्धव्या' ॥१॥ इति गाथावृत्तौ। 'अनादिसूक्ष्मनिगोदेभ्य उद्धत्य शेषजीवराशिपूत्पद्यन्ते, ते पृथिव्यादिविविधव्यवहारयोगात् सांव्यवहारिका' इति भणितम् । तेनानादिसूक्ष्मनिगोदजीवाः अव्यवहारिण इत्यत्र समासविधिस्त्वेवं-सूक्ष्माश्च पृथिव्यादयश्चत्वारः, निगोदाश्च सूक्ष्मबादरसाधारणवनस्पतयः, न विद्यते आदिर्येषां तेऽनादयःअप्राप्तव्यवहारराशय इत्यर्थः । तथा च सूक्ष्माश्च निगोदाश्चेति द्वन्द्वः,अनादयश्च ते सूक्ष्मनिगोदाश्चेति कर्मधारयः । यदि च सर्वत्रापि कर्मधारयः क्रियते, तदा बादरनिगोदजीवा व्यवहारिणः सम्पद्य रन् । तथा न भवन्ति । यतो बादरनिगोदजीवेभ्यः सिद्धा अनन्तगुणा वक्तव्या स्युः । तत्कथं १ इतिचेत् । उच्यतेयतो यावन्तः सांव्यवहारिकराशितः सिद्धयन्ति, तावन्त एव जीवाः असांव्यवहारिकराशेविनिर्गत्य सांव्यवहारिकराशावा
For Private And Personal Use Only

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122