Book Title: Sutra Vyakhayan Vidhi Shatakam
Author(s): Dharmsagar Gani, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi

View full book text
Previous | Next

Page 115
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्याख्यान विधि तत्र प्रथम-निरुपक्रमायुर्नियतं, सोपक्रमायुश्च द्वितीयमनियतमायुरिति तेन-प्रकृतलौम्पकेन विकल्पितमिति गाथार्थः ॥ ९५ ॥ ____ अथ प्रकृतलौम्पकमुखेनैव केवलिनः सर्वत्रापि निर्णय एवं भवतीति व्यवस्थापनार्थ लौम्पकमेव प्रश्नविषयीकुर्वन्नाहणणु सोवकमाउ-स्सुवक्कमा जिणवरेण विणाया। जइ ता तंपि अणिण्णेइ, अण्णहा व सम्वन्नू ॥ ९६ ॥ व्याख्या-ननु भो लौम्पक ! सोपक्रमायुषो ये उपक्रमाः प्रत्यायुभिन्ना भिन्ना एव भवन्ति । ते च यदि जिनवरेण-तीर्थकृता, विज्ञाता-विशेषेण प्रत्यायुभिन्नस्वरूपेण ज्ञाता-अवगताः, 'ता'तर्हि, तदपि-सोपक्रमायुरपि निर्णयति, अन्यथा-विज्ञानाऽसम्भवात, सर्वज्ञो नैव भवेत-न भवेदेवेत्यर्थः । अस्ति च सर्वज्ञस्त्वयापि तथैवाभ्युपगमात् । किंच-उपक्रमाणामज्ञाने इदं सोपक्रमायुरिति विशिष्टज्ञानमेव न स्यात् । विशिष्टज्ञानस्य विशेषणज्ञानजन्यत्वादिति गाथार्थः ॥६६॥ अथोद्दिष्टस्थ लौम्पकस्य भ्रान्तिकारणमाहजइ-ता-सहन्भंतो, संसयवयणं वइज्ज मूढमणां । अमुणंतो ताणत्थं, कप्पिअप्रत्येण भंतिकरो ॥ ९७ ।। व्याख्या-यदि-तर्हिशब्दाभ्यां भ्रान्तो-व्यामूढः मिथ्याखोपहतावबोध इति यावत् । संशयवचनं वदेत् मूढमना-मूर्खः यदि-तर्हिशब्दयोर्वक्तुः संशयं भाषते 'ताणार्थ ति तयोर्यदि-तर्हिशब्दयोरर्थमभिधेयमजानानः कल्पितार्थेन-निजमतिविकल्पितार्थकरणेन, भ्रान्तिकरो-भ्रमोत्पादकः मुग्धश्रोतगामिति गम्यं । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122