Book Title: Sutra Vyakhayan Vidhi Shatakam
Author(s): Dharmsagar Gani, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi

View full book text
Previous | Next

Page 121
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११२ व्याख्यान विधि अयाणिअयं संतं' ति। सुखादिकं किंचिन्नियतिकृतं-अवश्यभाव्युदयप्रापितं तथा अनियतं-आत्मपुरुषेश्वरादिप्रापितं सत्नियतिकृतमेवैकान्तेनाश्रयन्ति, अतोऽजानानाः सम्यग सुखदुःखादिकारणं, अबुद्धिकाः-बुद्धिरहिता भवन्तीति । तथाहिआहेतानामित्यादि यावत् तदेवं नियत्यनियत्योः कर्तृत्वेन युक्त्युपपन्ने सति नियतेरेव कर्तृत्वमभ्युपगच्छन्तो निर्बुद्धिका भवन्तीत्यवसेयम् । अत एव 'एगमेगे उ पासस्था' इत्यादि पुरोवर्तिसूत्रस्य व्याख्याने 'सर्वस्मिन्नपि वस्तुनि नियतानियते सतो'ति भणितमिति सूक्ष्मदृशा सूत्रकृदङ्गस्य वृत्तिरेव सम्यग पर्यालोच्येति गाथार्थः ॥ १०३ ॥ अथ प्रकृतप्रकरणस्य निगमनमाहएवं खल सुत्तत्थं, सम्म सुणिउण सम्मदिट्ठीहिं । णे तित्थगरेहि, भणिअमिणं ति सुबुद्धीए ॥ १०४ ॥ इति सूत्रव्याख्यानविधिशतकसूत्रं समाप्तम् । ___ व्याख्या-एवं-प्रागुक्तप्रकारेण, सूत्रार्थ-सूत्रव्याख्यानं, सम्यक् श्रुत्वा सम्यग्दृष्टिभिज्ञेयं, कया १, इह सूत्रार्थकरणं तीर्थकृर्भिणितमिति बुद्ध्या ज्ञेयं 'सुत्तत्थो खलु पढमो' इत्यादिरूपेण सूत्रव्याख्यानं तीर्थकृभिर्भणितमिति श्रद्धेयमिति तात्पर्यमिति गाथार्थः ॥ १०४ ॥ । इति सूत्रव्याख्यान विधिशतकस्य वृत्तिः समाप्तेति भद्रमिति । - For Private And Personal Use Only

Loading...

Page Navigation
1 ... 119 120 121 122