Book Title: Sutra Vyakhayan Vidhi Shatakam
Author(s): Dharmsagar Gani, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi

View full book text
Previous | Next

Page 119
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्याख्यान विधि दिव्योमपर्यन्ताः पदार्थास्तुल्या एव भवन्ति । यदाह श्रीहेमचन्द्रसूरिः 'आदीपमाव्योम समस्वभावं, स्याद्वादमुद्रानतिभेदि वस्तु । तन्नित्यमेवैकमनित्यमन्यदिति त्वदाज्ञां द्विषतां प्रलापाः ।। इति द्वात्रिंशिकायां । विरोधस्तु द्रव्यार्थिकनयाभिप्रायेण पर्यायार्थिकनयाभिप्रायेण वा नित्यमनित्यं च बदतोऽवसातव्यः । एवं भिन्नकारणजन्यत्वापेक्षया विरोधोऽपि न भवत्येव । यतो जैदानां मते सर्वमपि कार्य कालादिपञ्चसमवायजन्यं भवति । तत्रैका नियतिस्तजन्यत्वाऽपेक्षया सर्वमपि कार्य नियतं, नियतिव्यतिरिक्तकालादिचतुष्टयजन्यत्वाऽपेक्षया अनियतं, नियत्यनियत्योः कारणभूतयोभिन्नत्वेन तदुभयजन्यत्वाऽपेक्षया सर्व कार्य नियतानियतं भवति । तेन नियतत्वानियतत्वयोः सामान्याधिकरण्ये वक्तव्ये विरोधगन्धोऽपि न भवति । भवति च विरोधो नियत्याऽनियत्या वा जन्यं सर्व कार्य नियतानियतमिति वदतः। तत्र दृष्टान्तस्तु पितृत्वपुत्रत्वविशिष्टः पुरुषः । स च निजपितृजन्यत्वाऽपेक्षया पुत्रः, निजपुत्रजनकत्वाऽ पेक्षया च पितेति न विरोधः। भवति च विरोधः निजं पितरं पुत्रं वा अधिकृत्य पितृत्वपुत्रत्वयोः सामान्याधिकरण्यं वदतः । अथवा मातापितृजन्यः पुत्रोऽपि दृष्टान्तो बोध्यः । परं कालादिपञ्चसमवायजन्यत्वेन साम्येऽपि मुख्यवृत्तिमधिकृत्य पंचानामपि अनियमेन विवेकव्यपदेशो भवति, यथा-कर्मणामुदीरणा पुरुषकारेणैव भवतीति व्यपदेशः । यदागमः-'जं तं भंते ! अप्पणा For Private And Personal Use Only

Loading...

Page Navigation
1 ... 117 118 119 120 121 122