Book Title: Sutra Vyakhayan Vidhi Shatakam
Author(s): Dharmsagar Gani, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शतकम्
अयं भावः-यदि सोपक्रमायुष्कस्य पुरुषस्योपक्रमो मिलिष्यति, तर्हि मृत्युमाप्स्यति, नान्यथेति । यथा यद्ययं धर्म करिष्यति, तर्हि सुखी भविष्यतीति, वक्तुः संशयमन्तरेण तथा प्रयोगाऽसम्भवादिति तस्याभिप्राय इति गाथार्थः ॥ ९७ ॥ ___ यथोक्तप्रकारेण कल्पना भ्रान्त्यैवेति भ्रान्तिसमर्थनाय यदितर्हिशब्दयोरभिधेयमाहजम्हा जइ-तासद्दा, णिआमगा कज्जकारणाणमिहं । अण्णय-वइरेगेहि, लोअपसिद्धं ति विष्णेअं ॥ ९८ ।। ___व्याख्या-तस्मादेव भ्रान्तिः, यस्मात् कारणात् इह-जगति यदि-तहिंशब्दौ कार्यकारणानां-कार्यकारणभावसम्बन्धानां, नियामको-निश्चायको भवतः, काभ्यां १ अन्वयव्यतिरेकाभ्यां 'सति सद्भावोऽन्वयोऽसत्यसद्भावश्च व्यतिरेक' इत्येवंरूपाभ्यां, यथा-यदि मृत्पिण्डदण्डकुलालादीनि सामग्री स्यात्तर्हि घटोत्पत्तिः स्यात, तदभावे च न स्यादेवेत्येवं प्रकृतेऽपि बोध्यम् । अन्यथा यदि सावधाचार्य उत्सूत्रं नाऽवक्ष्यत्तर्हि अनन्तकालं संसारे नाऽभ्रमिप्यदित्यादिप्रयोगानुपपत्तिप्रसक्तेः । तत्र सन्देहाऽभावात् । एवं चानेकधा प्रयोगा भवन्तीति लोकप्रसिद्धं विज्ञ यमिति गाथार्थः ।। ९८ ॥
अथोद्दिष्टलौम्पकं दूषयितुं प्रथमं जैनप्रक्रियामाहकालाइपंचजणि, सव्वं कज्ज हविज्ज जिणसमए , तत्थ य एगा णिअई, सेसचउक्कं अणिअइत्ति ॥१६॥
व्याल्या-कालादिपंचजनितं, आदिशब्दात् स्वभावादयो
For Private And Personal Use Only

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122