Book Title: Sutra Vyakhayan Vidhi Shatakam
Author(s): Dharmsagar Gani, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi

View full book text
Previous | Next

Page 113
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्याख्यान विधि 'सुनिश्चितं मत्सरिणो जनस्य, न नाथ ! मुद्रामतिशेरते ते । माध्यस्थ्यमास्थाय परीक्षका ये, मणौ च काचे च समानुबन्धाः ॥ १ ॥ इति द्वात्रिंशिकायां । ततश्चाभिग्रहिकं तीव्रतरं, अयं जैनो मार्गों न सम्यग , वेदबाह्यत्वात् शुद्रपाण्डिकधर्मत्वाच्चेति जैनरूपेण मार्गविषयकद्वेषमूलकत्वात् । ततोऽप्याभिनिवेशिकं तीव्रतमं, तद्व्यञ्जकं तु जिनवचनानामननुवादित्वमेव । तच्च प्राक प्रदर्शितमिति गाथार्थः ॥ ९१ ॥ - अथाभिनिवेशिमिथ्यादृष्टिप्वपि नागपुरीयलौम्पकोऽल्पश्रुतवतां दुरधिगम्य इति मत्वा तदीयस्वरूपं किञ्चिद्विशेषतो व्यक्तीक्रियते-- तत्य विक्ष अभिणिवेसी, णागपुरिअलंपगो हि दुरहिगमो। अप्पसुआणं सिं जे, वयणविरोहं ण याणंति ॥ १२ ॥ व्याख्या-तत्रापि-व्यक्तमिथ्यात्वेष्वपि, धर्मधर्मिणोः कथंचिदभेदात् नागपुरीयलौम्पकः अभिनिवेशी तेषामल्पश्रुतानां दुरधिगमः-दुःखेनाधिगमो-ज्ञानं यस्य स तथा । तेषां केषां ? ये वचनविरोधं अहं मौनीत्यादिवद्वदव्याघातं न जानन्ति, तेषां दुरधिगम्य इत्यर्थः। हिरेवार्थे। दुरधिगम्य एवेति गाथार्थः ।।९२।। ___ अथ तेषां मूलप्ररूपणापि निजवचनविरोधिनीति दर्शयन्नाहसवण्ण वि जिणिदो, णिअयं णिण्णइ ण उण इअरपि । एवं तम्मयमूल-परूवणा पावकम्मुदया ।। ६३ ।। व्याख्या-सर्वज्ञोऽपि जिनेन्द्रोऽर्हन् नियतं-अवश्यभावि For Private And Personal Use Only

Loading...

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122