Book Title: Sutra Vyakhayan Vidhi Shatakam
Author(s): Dharmsagar Gani, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शतकम्
१०३
तया भणिताः, तेषामेवोन्मार्गोपदेशकत्वेन लोकानामुन्मार्गभूतत्वात् । अत एव भणितं
'सेसा मिच्छदिट्टी, गिहिलिंग-कुलिंग-दवलिंगेहिं ।।
जह तिणि उ मुक्खपहा, संसारपहा तहा तिण्णि ।।१॥ त्ति उपदेशमालायां। अत्र गृहिलिङ्गिनो ब्राह्मणा मन्तव्याः, तेषामेवोन्मार्गभाषकत्वेन तथात्वादिति गाथार्थः ।। ९० ।। ____ अथ प्रसङ्गतो व्यक्तमिथ्यात्वेष्वपि किं मिथ्यात्वं कुतो मिथ्यात्वान्मन्दं तीव्र वा भवतीति विवेकेन परिज्ञानाय गाथामाहसंसइअमणभिगहिरं, अभिगहि अभिणिवेसिअं कमसो। अणुष्णविवावाए, मन्दाइअ जाव तिव्वतमं ॥६१॥
व्याख्या-सांशयिक १मना भिग्रहिक २माभिग्रहिक ३माभिनिवेशिकं४ चेति क्रमश:-क्रमेणान्योन्यविवक्षया मन्दं १ तीव्र २ तीव्रतरं ३ तीव्रतमं ४ च भवेदित्यक्षरार्थः ।
भावार्थः पुनरेवं-सांशयिकादीनां देव-गुरु-धर्मविषयकव्यक्तचेतनामूलकत्वेन साम्येऽपि अनाभिग्रहिकाद्यपेक्षया मन्दं सांशयिक, सांशयिकापेक्षया चानाभिग्रहिकं तीव्र, ततोऽप्याभिग्रहिक तीव्रतरं, ततोऽप्याभिनिवेशिकं तीव्रतम, सर्वोत्कृष्टमिथ्यात्वरूपत्वात् । मिथ्यात्वं च अदेवादिषु देवत्यादिना संज्ञायत्त्वात् । तच्चैवं-सांशयिक हि जैनप्रवचनं सम्यग नवेति संशयात्मकं मन्दमिथ्यात्वम् । ततश्च सर्वाण्यपि दर्शनानि शोभनानीत्यादिरूपमनाभिग्रहिकं तीन, तस्याभिग्रहिककल्पत्वात् । यदुक्तं
For Private And Personal Use Only

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122