Book Title: Sutra Vyakhayan Vidhi Shatakam
Author(s): Dharmsagar Gani, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०२
व्याख्यान विधि
सम्यक्त्वप्राप्तेरप्रतिबन्धकत्वेन भणितिः । यदाह श्रीहरिभद्रसूरिः-यथाऽस्य भगवतो नाममात्रमप्यजानानाः प्रकृत्यैव भद्रका ये भवन्ति, ततश्च मार्गानुसारिणः सदन्धन्यायेन अनाभोगतोऽप्यस्य वचनानुसारेण प्रवर्तन्ते । तानप्येवंविधाननल्पविकल्पान् लोकान् एष कर्मपरिणामो महानरेन्द्रो यद्यपि संसारनाटके कियन्तमपि कालं नाटयति तथापि सदागमस्याभिप्रेता इति मत्वा अधमपात्रभावं नारकतिर्यक्कुमानुषकदमररूपं तेषां न विद्यते इति उपमितिभवप्रपञ्चायां । अनाभोगमिथ्यात्वं चाव्यक्तमिथ्यात्वं गुणस्थानकवृत्तावुक्तमवसातव्यम् । अत एवानाभोगे मिथ्यात्वे वर्तमाना जीवाः न मार्गगामिनो, न वोन्मार्गगामिनो भण्यन्ते । अनाभोगमिथ्यात्वस्यानादिमत्त्वेन सर्वेषामपि जीवानां निजगृहकल्पत्वात् । लोकेऽपि निजगृहे भूयः कालं वसन्नपि न मार्गगामी, नवोन्मार्गगामीति व्यपदिश्यते, किन्तु निजगृहान् निर्गतः समीहितनगराभिमुखं गच्छन्मार्गगामी, अन्यथा तून्मार्गगामीति व्यपदिश्यते । एवं च तथा भव्यत्वयोगेनानादिमिथ्यात्वान्निर्गतो यदि जैनमार्गमाश्रयते तदा मार्गगामी, जैनमार्गस्यैव मोक्षमार्गत्वात् । यदि च शाक्यादिदर्शनं जमाल्यादिदर्शनं वाश्रयते, तदोन्मार्गगामीति व्यपदिश्यते । तदीयदर्शनस्य संसारमार्गत्वेन मोक्षं प्रत्युन्मार्गभूतत्वात् । यदागमः
'कुप्पवयणपासंडी, सव्वे उम्मग्गपट्टिआ।
सम्मग्गं तु जिणक्खायं, एस मग्गो हि उत्तमे ॥ १ ॥ ति।। उत्त० २३ । अत्र हि कापिलेयादिकुदर्शनतिन एवोन्मार्ग
For Private And Personal Use Only

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122